________________
१०९२
चतुर्दश भूतग्रामाः (छाया- मिथ्यादृष्टिः सास्वादनश्च तथा सम्यग्मिथ्यादृष्टिश्च ।
अविरतसम्यग्दृष्टिः विरताविरतः प्रमत्तश्च ॥१॥ ततश्च अप्रमत्तः निवृत्त्यनिवृत्तिबादरौ सूक्ष्मः ।
उपशान्तक्षीणमोहौ भवति सयोगी अयोगी च ॥२॥) गाथाद्वयस्य व्याख्या - कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकः, तथा चोक्तम् -
"उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स ।
सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥' (छाया- उपशमसम्यक्त्वात् च्यवमानस्य मिथ्यात्वमप्राप्नुवतः ।
सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः ॥१॥) तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टि:-देशविरतिरहितः सम्यग्दृष्टिः, विरताविरत:-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चा( प्रमत्तः-अ)प्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरो 'त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्ध्वं लोभाणुवेदनं यावदनिवृत्तिबादरः, 'सुहमे 'त्ति लोभाणून् वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोह: श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो हुस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः ॥ व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ।'
इत्थं गुरोः षट्त्रिंशद्गुणा जिनेन्द्रैः कथिताः ॥६०८॥
'चउक्कं' इत्यादि । गुरुश्चतुर्विधस्मारणादिकं करोति । तस्य स्वरूपं प्रज्ञप्तं प्रथमषट्विशिकावृत्तौ । गुरुश्चतुर्विधधर्ममुपदिशति । तस्य स्वरूपं व्याख्यातं प्रथमषट्त्रिशिकावृत्तौ । प्रत्येकं चतुर्भेदानां चतुर्विधानां ध्यानानां स्वरूपं गुरुर्जानाति प्ररूपयति च । तत् प्रदर्शितं प्रथमषट्त्रिशिकावृत्तौ । गुरुादशभावना भावयति उपदिशति च । तासां स्वरूपमुक्तं षोडशषट्विशिकावृत्तौ । इत्थं गुरोः षट्त्रिंशद्गुणाः