________________
१०८६
ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः
दिव्याद्युपसर्गान् चतुरः ४ सहते सदा विशुद्धमनाः ।
द्वात्रिंशद् ३२ जीवभेदानां, जानाति एवं खलु षट्त्रिंशत् (४२) ॥६४२ ॥
तथा विकथानां चतुष्कं, द्वात्रिंशत् वन्दनस्य दोषान् ३२ । नित्यं त्यजति स्वभावात्, सूरिगुणा भवन्ति षट्त्रिंशत् (४३) ॥६४३ ॥
आशातनाः त्रयस्त्रिंशत् ३३, वीर्याचारस्य त्रिकमगूहन् ३ । एवं सूरिगुणानां षट्त्रिंशद् वर्णितं सत्यम् (४४) ॥६४४॥
पञ्चविंशतिं भावनाः भावयन् २५ पञ्चमहाव्रतादीनाम् । एकादशाङ्गधारी ११ सूरिगुणाः भवन्ति षट्त्रिंशत् (४५) ॥६४५॥
तथा द्वादशाङ्गधारी प्रकीर्णदशकं षट्छेदाः चतुर्मूलम् । नन्दिः अनुयोगधरः, अरागद्वेषाभ्यां षट्त्रिंशत् (४६) ॥६४६॥ ज्ञाने च दर्शने च चरणे तपसि तथा च वीर्ये । करणकारणानुमतिभेदैः भवन्ति पञ्चदश १५ ||६४७॥
दशविधसामाचारीकुशलः १० पञ्चसमितः ५ पञ्चस्वाध्यायः ५ । अप्रमत्तैकः १ गुणैः करोति सदा सूरिः षट्त्रिंशत् (४७) ॥६४८॥
अष्ट च प्रवचनमातरः ८ सुखदुःखशय्यानां अष्टौ ८ त्रिविधसत्यम् ३ । षड् भाषा: ६ ध्यानद्विकं २ सप्तापि भयानि ७ द्विधर्मौ २ षट्त्रिंशत् (४८) ॥६४९॥
इत्यादिअनेकगुणगण-शतकलितः सुविहितानां हितजनकः ।
आचार्यः सुप्रशस्तः, गच्छे मेथिसमः भणितः ||६५०|)
आसां गाथानां सङ्क्षेपेण विवरणमेवं ज्ञेयम् - 'पडिरूवाई' इत्यादि । गुरुः प्रतिरूपादिचतुर्दशगुणवान् भवति । ते चतुर्दशगुणाः सप्तदशषट्त्रिशिकावृत्तौ प्रदर्शिताः । गुरुः क्षान्त्यादिदशविधं यतिधर्मं पालयति । दशविधयतिधर्मस्वरूपं द्वादशषट्त्रिशिकावृत्तौ वर्णितम् । गुरुरनित्यताद्या द्वादश भावना भावयति । द्वादशभावना षोडशषट्त्रिशिकावृत्तौ प्ररूपिताः । इत्थं सूरे:-गुरोः षट्त्रिंशत् गुणा भवन्ति ॥५९६॥
'पंचिंदिय' इत्यादि । 'पंचमहव्वय' इत्यादि । अनयोर्गाथयोर्भावार्थः पूर्वं सप्तत्रिंशत्तमगाथावृत्तेरनन्तरं वृत्तौ प्रदर्शितः ॥ ५९७॥ ॥५९८॥