________________
ग्रन्थान्तरगतगुरुगुणषट्त्रिशिका :
अष्टादशविधब्रह्म १८ धरति, शीलाङ्गरथसहस्राणाम् । अष्टादशकं वशगं १८ सूरिगुणा भवन्ति षट्त्रिंशत् (३०) ॥६३०॥ एकोनविंशतिं दोषाणां कायोत्सर्गस्य १९ सप्तदश मरणानि १७ । भाषते त्यजति यथाज्ञं, सूरिगुणा भवन्ति षट्त्रिंशत् (३१) ॥६३१ ॥ मिथ्यात्वं १ असमाधि - स्थानानि विंशतिः २० च मण्डलीदोषाः । पञ्च ५ दश एषणादोषाः १० षट्त्रिंशद् भवन्ति सूरिगुणाः (३२) ||६३२॥ एकविंशतिः तथा शबलाः २१ शिक्षाशीलानां पञ्चदशस्थानानि १५ । एवं षट्त्रिंशद्गुणा, सूरीणां गुणगणाढ्यानाम् (३३) ॥६३३॥ मिथ्यात्वं वेदत्रिकं, हास्यादिषट्कं कषायचतुष्कं च । चतुर्दशाभ्यन्तरग्रन्थयः १४ परीषहद्वाविंशतिः २२ षट्त्रिंशत् (३४) ॥६३४॥
मुनिगुणसप्तविंशतिः, नवकोटिविशुद्धिः अशनादीनाम् । एवं सूरिगुणानां षट्त्रिंशद् भवति नित्यमेषा (३५) ||६३५॥ प्रतिलेखनपञ्चविंशतिः २५, षट्कायविराधनानामुज्झनम् ६ । वेदिकादिपञ्चकं ५ शुद्धं षट्त्रिशत्कं गुरोः (३६) ||६३६|| द्वात्रिंशद्योगसङ्ग्रहगुणकलितः ३२ चतुष्प्रकारभावैः । आचरणा-सम्भाषणा-वासना - प्रवर्त्तनाभिः ४ च (३७) ॥६३७॥ लब्धीनां अष्टाविंशतिः २८ अष्टावेव प्रभावकानां पुरुषाणाम् ८ । एवं षट्त्रिंशद्गुणाः, गुरूणां सततं ज्ञातव्याः (३८) ॥६३८॥ एकोनत्रिंशत्पापश्रुतस्य प्रसङ्गवर्जनं २९ च सप्त शोधिगुणाः ७ । एवं षट्त्रिंशद्गुणाः, गुरूणां सततं ज्ञातव्याः (३९) ॥६३९॥ अभ्यन्तरिकं षट्कं ६ त्रिंशत् स्थानानि मोहनीयस्य ३० । षट्त्रिंशत् सूरिगुणाः, ज्ञातव्याः निपुणबुद्धिभिः (४०) ॥६४०॥ एकत्रिंशत् सिद्धगुणाः ३१, पञ्चकं ज्ञानानां ५ इत्थं षट्त्रिंशद् । सूरिगुणानामेवं, धर्त्तव्यं सदा हृदये (४१) ॥६४१॥
१०८५