SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १०८४ ग्रन्थान्तरगतगुरुगुणषत्रिशिकाः सामाचारीं दशधा कथयति १०, दशकं समाधिस्थानानाम् १० । उज्झितषोडशकषायः १६, एवं षट्त्रिशद्गुणकलित : (१८) ॥६१८॥ चत्वारि समाधिस्थानानि, एकैकानि चत्वारि १६ अशनशोधेः । दशकं १० दशप्रतिसेवा १० - वर्जितः भवन्ति षट्त्रिंशत् (१९) ॥६१९॥ मुनिधर्म १० - विनय १० - वैयावृत्त्य १० - दशकं सदा परिवहति । वर्जितषडकल्प्यः ६, एवं षट्त्रिशद्गुणयुक्तः (२० ) ॥६२०॥ रुचिदशकं १० च द्विशिक्षे २, सदृष्टिवादाङ्गानि १२ तथोपाङ्गानि १२ । द्वादश द्वादश षट्त्रिंशद्, एवं सूरीणां गुणसङ्ख्या (२१) ॥६२१॥ एकादश गृहिप्रतिमाः ११ द्वादश व्रतानि १२ त्रयोदश क्रियास्थानानि १३ । जानन् वर्जयन् षट्त्रिंशद्गुणश्च आचार्य: (२२) ॥६२२॥ दशविधं प्रायश्चित्तं १० उपयोगा द्वादश १२ चतुर्दश उपकरणानि १४ । विधिना प्रतिपद्यमानः, षट्त्रिंशद्गुणः भवेत् सूरिः (२३) ॥६२३॥ भावनाः १२ तपांसि १२ मुनिप्रतिमाः १२, द्वादश भेदा भवन्ति त्रिभिः गुणयेत् । एवं षट्त्रिंशद्गुणः, गुरुबुद्ध्या प्रणन्तव्यः (२४) ॥६२४॥ अण्डादिअष्टसूक्ष्माणि ८, गुणस्थानानि तथैव चतुर्दश च १४ । प्रतिरूपादिः चतुर्दश १४, सूरिगुणा भवन्ति षट्त्रिंशत् (२५) ॥६२५॥ गौरव ३ - शल्ययोः ३ त्रिकं पञ्चदश सञ्ज्ञाश्च १५ योगाः पञ्चदश १५ । एवं षट्त्रिंशद्गुणा, आचार्यः यः सदा जानाति (२६) ॥६२६॥ षोडश उद्गमदोषाः १६, षोडश उत्पादनाया ये दोषाः १६ । द्रव्याभिग्रहचतुष्कं ४, एवं षट्त्रिंशत्सूरिगुणाः (२७) ॥६२७॥ षोडश वचनानि १६ संयमः सप्तदशभेदात् १७ विराधनास्तिस्रः । एवं षट्त्रिंशद्गुणा-लङ्कृततनुः भवति आचार्यः (२८) ॥६२८॥ अष्टादशभ्यः पुरुषेषु चरणायोग्येभ्यः १८ ददाति न चरणम् । पापस्थानानामष्टादशानां १८ वर्जनः भवति षट्त्रिंशद् (२९) ॥६२९॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy