SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः आचारादिः अष्टकः, तथैव च दशविधः स्थितकल्पः । द्वादश तपांसि षड् आवश्यकानि, सूरिगुणा भवन्ति षट्त्रिंशत् (६) ||६०६॥ अष्टादशपापस्थानैः परित्यक्तः, द्वादशभिक्षुप्रतिमाधरः । षड्व्रतरक्षणधीरः, सूरिगुणा भवन्ति षट्त्रिंशत् (७) ॥६०७॥ द्वाविंशतिपरिषहसहः, चतुर्दशभूतग्रामरक्षणपरश्च । षट्त्रिंशत् सूरिगुणा, एते भणिता जिनेन्द्रैः (८) ||६०८|| चतुष्कं स्मारणशिक्षादीनां ४, दानादिः धर्मः ४ ध्यानमैकैकम् । चतुर्भेदं १६ द्वादशभावना १२ - उपदेशपरश्च षट्त्रिंशत् (९) ६०९॥ चरणानि ५ व्रतानि ५ समितय ५ आचाराः ५ सम्यक्त्वानि ५ स्वाध्यायाः ५ पञ्चव्यवहाराः ५ । संवेगः एकः १ अलङ्कृतदेहः षट्त्रिंशद् गुणकलित : (१०) ॥६१०॥ इन्द्रिय ५ विषय ५ प्रमादा ५ - श्रव ५ निद्रा ५ दुष्टभावना ५ त्यक्तः । षड्जीवकाययतना-निरतः ६, षट्त्रिंशद्गुणकलितः (११) ॥६११॥ लेश्याः ६ आवश्यकानि ६ द्रव्याणि ६ वचनानि ६ दोषाः ६ तथा च षड् भाषाः ६ । ज्ञानगुणेन जानाति, एवं षट्त्रिंशद्गुणकलितः (१२) ॥६१२॥ पिण्डैषणाः ७ पानैषणाः ७ भयानि ७ सुखानि ७ सप्त अष्टमदस्थानानि । एवं षट्त्रिंशद्गुणाः, सूरीणां भवन्ति सर्वकालम् (१३) ॥६१३॥ दर्शनज्ञानचारित्रा- चारातिचाष्टकं अष्टौ । गुरुगुणयुक्तः चतुर्बुद्धि-कलितः ४ षट्त्रिशद्गुणयुक्तः (१४) ॥६१४॥ अष्टाङ्गयोग ८-अष्टसिद्धि ८-अष्टदृष्टि ८ - अष्टकर्म ८ - विज्ञानः । द्रव्यादिचतुरनुयोग-धरः ४ गुणा भवन्ति षट्त्रिंशत् (१५) ॥६१५॥ १०८३ नवपापनिदानादि ९ - वारकः नवविधश्च ब्रह्मधरः ९ । कृतनवकल्पविहारः ९ नवतत्त्वानि ९ षट्त्रिंशद्गुणयुतः (१६) ॥६१६॥ उपघात १०-असंवर १० - सङ्क्लेश १० - दशकं, हास्यादिषट्कमुज्झित्वा । जिनशासनप्रवृत्तः, षट्त्रिंशद्गुणो भवति सूरिः (१७) ॥६१७॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy