________________
१०८२
ग्रन्थान्तरगतगुरुगुणपट्ञिशिकाः अट्ठ य पवयणमायाओ ८ सुहदुहसेज्जाण अट्ठ ८ तिविहसच्चं ३ । छब्भासा ६ झाणदुर्ग २ सत्तविभंग ७ दुधम्म २ छत्तीसं (४८) ॥६४९॥ इच्चाइअणेगगुणगण-सयकलिओ सुविहियाण हियजणओ।
आयरिओ सुपसत्थो गच्छे मेढीसमो भणिओ ॥६५०॥ (छाया-प्रतिरूपादयश्चतुर्दश, क्षान्त्यादिकदशविधो धर्मः ।
द्वादश च भावनाः, सूरिगुणा भवन्ति षट्त्रिंशत् (१) ॥५९६॥ पञ्चेन्द्रियसंवरणः, तथा नवविधब्रह्मचर्यगुप्तिधरः । तथा त्यक्तचतुर्विधकषायः, अष्टादशगुणैः संयुक्तः ॥५९७॥ पञ्चमहाव्रतयुक्तः, पञ्चविधाचारपालनसमर्थः । पञ्चसमितित्रिगुप्तिगुप्तः, षट्त्रिंशद्गुणकलितः (२) ॥५९८।। विधिप्रतिपन्नचारित्रः, गीतार्थः वत्सलः सुशीलश्च । सेवितगुरुकुलवासः अनुवृत्तिपरः गुरुः भणितः ॥५९९॥ देशकुलजातिरूपी, संहननी धृतियुतः अनाशंसी। अविकत्थनः अमायी, स्थिरपरिपाटिः ग्राह्यवाक्यः ॥६००। जितपर्षद् जितनिद्रः, मध्यस्थः देशकालभावज्ञः । आसन्नलब्धप्रतिभः, नानाविधदेशभाषाज्ञः ॥६०१॥ पञ्चविधे आचारे युक्तः, सूत्रार्थतदुभयविधिज्ञः । आहरणहेतुउपनयनयनिपुणः, ग्राहणाकुशलः ॥६०२॥ स्वसमयपरसमयविद्, गम्भीरः दीप्तिमान् शिवः सोमः । गुणशतकलितः एषः, प्रवचनउपदेशकः सुगुरुः (३) ॥६०३॥ अष्टविधा गणिसम्पद्, आचारादिः चतुर्विधा एकैका । चतुर्धा विनयप्रवृत्तिः, षट्त्रिंशद्गुणा इमे गुरोः (४) ॥६०४।। सम्यक्त्वज्ञानचरणानि, प्रत्येकं अष्टाष्टभेदवन्ति । द्वादशभेदश्च तपः, सूरिगुणा भवन्ति षट्त्रिंशत् (५) ॥६०५॥