________________
द्वात्रिंशत्तमी षट्विशिका साम्प्रतं द्वात्रिंशत्तमी षट्विशिकामाहमूलम् - इगहियतीसविहाणं, सिद्धगुणाणं च पंचनाणाणं ।
अणुकित्तणेण सम्मं, छत्तीसगुणो गुरू जयउ ॥३३॥ छाया - एकाधिकत्रिंशद्विधानां, सिद्धगुणानाञ्च पञ्चज्ञानानाम् ।
__ अनुकीर्तनेन सम्यग्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३३॥ प्रेमीया वृत्तिः - एकाधिकत्रिंशद्विधानां - एकत्रिंशत्प्रकाराणां, सिद्धगुणानां - सिद्धानां गुणा इति सिद्धगुणाः, तेषां तथा, पञ्चज्ञानानां - पञ्चानां ज्ञानानां, चः समुच्चये, सम्यग् - सुष्ठ, अनुकीर्तनेन - स्वरूपप्रतिपादनेन, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
भावार्थस्त्वयम् - सितं-बद्धं ध्मातं-क्षपितं येन स सिद्धः मुक्तात्मेत्यर्थः । तस्य गुणा इति सिद्धगुणाः । ते एकत्रिंशद्विधाः । तद्यथा - १ न दीर्घः, २ न वृत्तः, ३ न व्यस्रः, ४ न चतुरस्रः, ५ न परिमण्डलः, ६ न कृष्णः, ७ न नीलः, ८ न लोहितः, ९ न पीतः, १० न शुक्लः, ११ न सुरभिगन्धः, १२ न दुरभिगन्धः, १३ न तिक्तः, १४ न कटुकः, १५ न कषायः, १६ न अम्लः, १७ न मधुरः, १८ न कर्कशः, १९ न मृदुः, २० न गुरुः, २१ न लघुः, २२ न शीतः, २३ न उष्णः, २४ न स्निग्धः, २५ न रूक्षः, २६ न स्त्री, २७ न पुरुषः, २८ न नपुंसकं, २९ असङ्गः, ३० अकायः, ३१ अरुहश्च । यदुक्तं श्रमणप्रतिक्रमणसूत्रे – 'इगतीसाए सिद्धाइगुणेहिं ।'
आवश्यकसूत्रवृत्तावस्य व्याख्यैवं कृता - 'एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं ध्मातमस्येति सिद्धः, आदौ गुणा आदिगुणाः, सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः,