Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 35
________________ गद्यचिन्तामणी मनर्थमप्यभ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवादृशां पुनरीदृशेषु विषयेषु कः प्रसङ्गः" इति । पृथिवीपतिसङ्गपिशुनं धर्मदत्तवचनं काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थे निष्ठुरनिशितसृणिपतनं परवादिवर्गस्येव निसर्गनिर्दोषाने कान्तसमर्थनं प्रकृष्टकुल जातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुन्तुदमभूत् । २४ तद्वचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्टाङ्गारस्य स्याल : सालप्रांशुकाः कन्द इव हेयतायाः काष्ठेव काठिन्यस्य काङ्क्षिन्तकाश्यपीपतिनिधनो मथनः (6 कथयन्तु कामं काका इव वराकाः । न कदाचि-दपि देवेन देवतादेशलाङ्घना भवितव्यम् । भवितव्यताबलं तु पश्चात्पश्येम । किंच किंकराः खलु नरा देवतानाम् । यदीह देवताः परिभूयन्ते नरापचारचाकित्येन सोऽयं पाशदर्शनभयपलायितस्य फणिनि पदन्यासः करिकलभभीतस्य कण्ठीरवकण्ठारोहः " इति रोषपरुषमभाषिष्ट । तद्वचनं तु तस्य हृदयं तस्करस्येव कर्णीसुतमतप्रदर्शनं सौगतस्येव शून्यवादस्थापनं परिणतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास । 1 ततः समीहितसाधनाय काष्ठाङ्गारः सचिवेषु प्रतीपगामिषु कतिचिदवधीदपधीः । कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरवकारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणीं क्षोभयता बलेन प्रबलेन । अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशिरसि निषण्णम्, अपरवियदाशङ्काकृतावताराभिस्तारकापङ्किभिरिव व्याकोशकुसुमनिचयविरचिताभिः प्रालम्बमालिकाभिः सुरभितवक्षःस्थलम्, अधरितशारदपयोधरकुलेन दुकूलेन मन्दरमिव मथनसमय मिलितेन फेनपटलेन पाण्डुरितनितम्बम्, परिचुम्बितदशदिशावकाशेन पद्मिनीसहचरमरीचिवीचिपरिभावुकेन सहजेन तेजःप्रसरेण प्रतप्तचामीकरपरिकल्पि -

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184