Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 98
________________ पञ्चमो लम्बः । सिकता, निरास्पदा वीरता ' इति मिथः प्रवर्तयति प्रणयोगारिणीं वाणीम्, सखेदायां च खेचरचक्रवर्तिदुहितरि दयितविमोक्षणाय क्षणादाविभावयन्त्यामन्तिके स्वविद्यां विद्याधरकुल क्रमागताम्, क्रमज्ञः स कुमारोऽपि मारयितुं पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् ' किमेभिर्निष्फलं निहतैः । नासीदति गुरुजनादिष्टः काष्ठाङ्गारवधसमयः' इति साहसाय संनह्य - ' मानमात्मानं निवार्य सुदर्शननाम्नो देवस्य सस्मार । स च कृतज्ञः कृतज्ञचरो देवस्तदा ध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननका लिममलिम्लुचैः कालमेघनिचयैः कवचयन्, नभस्तलस्त्यानमेदिनीपरागपूरदूरान्तरतदिवाकरेण समुन्मूलितोत्क्षिप्तवृक्षषण्ड संमीलिताकाशदिगवकाशेन चण्डाभिघातघूर्णमानगिरिशिखरविशीर्णगण्डशैलेने तस्ततस्तूललीलया नीतगृहपटलीपटलेनाभिपातताडनविह्वलितावनीतलविलुठदखिलजीवधनेन झञ्झासमीरेण समुत्सारितसकलारक्षकबलः, सहेलमादाय कुमारमन्तरिक्षे - क्षणादिव गत्वा गीर्वाणसद नसदृक्षमक्षय सुखसंगतं शृङ्गपरामृष्टचन्द्रं चन्द्रोदयं नाम निजशैलमशिश्रियत् । अकार्षीच्च तत्र हर्षोत्फुल्लमुखः शत1 -मखसद नातिशायि सौधाभ्यन्तरस्थापितभद्रासनमध्यमध्यासीनस्य जीवकस्वामिनः स्वभर्तृमुखपरिज्ञातकुमार महोपकारितात्यादरेदारैः सार्धं पयोवार्धिपयोभिरभिषेकम् । व्याहाच्चि - " कुमार, मां विश्वदूषणपात्रे भाष गात्रे स्थितमेवं पवित्रीकृतवतस्ते 'पवित्रकुमारः' इति भवितव्यं नाम्ना " इति । एवं कृतज्ञानां धुरि कृतज्ञदीक्षेण यक्षेण कृतां पुरस्क्रियामनुभूय भूयसीं भूयस्तेन सममेकासनमध्यास्याप्सरसामतिपेलवं नाट्यमालोकयति कुमारे कुमारमारणाय प्रेरितः स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्षपितजीवं जीवककुमारमकार्षम्' इति वचसा हर्षकाष्ठागतं काष्ठाङ्गारं विधाय तदीयं प्रसादमनासादितपूर्व लेभे । ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परया

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184