Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
एकादशो लम्बः ।
१५५
वञ्चनैः काञ्चीशैथिल्यैः सधाष्टघैरुपप्रलोभनैः सवैलक्ष्यैः प्रत्यवेक्षितैः सप्रमादोपन्यासैः स्खलितानुज्ञापनैः सत्रासैर्गोत्रव्यत्ययैः सदास्योपगमैः संरम्भमार्जनैः समार्गनिरोधैः प्रतिनिवर्तनैः सकौतूहलैराश्चर्यविलोकनाक्षेपैः सगद्गदिकास्तम्भैमिथ्याकथितैः सलज्जाजाड्यैरधोमुखस्थितैः सानुशयैरनुपदप्रस्थापनैः ससमाह्वानैः क्रीडनसंकल्पनैः ससद्भावाभिनयैः प्रतार• णप्रावीण्यैः सरहस्यसंज्ञैराशोत्पादनैः सरोमाञ्चैरवतंसकमलकेलिताडनानुभावैश्च रमयन्यथाकामं कामसौख्यमसक्त एवान्वभवत् । तथाहिअसौ राजा वाह्यममित्रजातमध्रुवमतिविप्रकृष्टं चेयात्मनिष्ठमरिषड़र्ग व्यजेष्ट । असहाया नीतिः कातर्यावहा शौर्य च श्वापदचेष्टितमित्यभीष्टसिद्धिमन्विताभ्याममूभ्यामाकाङ्क्षीत् । सप्रणिधानं प्रहितप्रणिधिनेत्रः शत्रुमित्रोदासीनानां मण्डलेषु तैरज्ञातमप्यज्ञासीत् । राज्ञां रात्रिंदिवविभागेषु यदनुष्ठयमिदमित्थमनिर्बन्धमन्वतिष्ठत् । जातमपि सद्यः शमयितुं शक्तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं प्रकृतिवैराग्यं नाजीजनत् । किं बहुना । राजन्वतीमवनीमतानीत् ।
___ एवमनन्यसुलभानन्योन्याबाधितान्धर्मार्थकामान्संचिन्वति तस्मि - प्रजापतौ, प्रजाश्व तदधीनवृत्तयः सादरैः करप्रदानैः सानुशयैः प्रमादस्खलितैः सभयैराज्ञानुष्ठानैः सविनयैर्गुरुजनानुवर्तनैः सनिर्बन्धैश्चारुवृत्तैः सविचारैः प्रारम्भैः सफलैरखिलवृत्तैः सपरप्रयोजनैः साधुचेष्टितैः सदानपूजैरुत्सवोपक्रमैः समेतास्तं राजानमनार्जनक्लेशमर्थजातमजन्मोपयुक्तं पितरमनिमेषोन्मेषं नेत्रमनभिवर्धनायासं सुतमाबद्धमूर्तिमिव विश्वासमवनीतलसंचारमिव सुरतरुमात्मप्राणानामिव पुञ्जीभावममन्यन्त । तथा गात्रबद्ध इव क्षात्रधर्मेऽस्मिन्धर्मोत्तरं धनोत्तरं सौख्योत्तरं च धरातलमवति सम्राजि, वत्ससाम्राज्यसमवलोकनसफलीकृतजीविता विविधविहितपूर्वोपकारिसर्वजनतृप्तिः पुनरतृप्तिकारिण्यविचारितरम्ये किंपाकफलप्रख्ये वि

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184