Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 177
________________ १६६ गद्यचिन्तामणी मपि तपसे' इति ताः संबोध्य गत्यभावात्तास्वपि तपसे समुद्यतासु जातानन्देन नन्दाढ्येन समं रथकड्यो ह्यमानमह्यार्ध्यराशिरनर्व्यशेवधिमातुमटन्नश्रीक इव सभाजयन्भगवतः पारमैश्वर्यश्रिया वर्धमानस्य श्री वर्धमानस्वा मिन: श्रीसभाभिमुखः प्रयातुं प्रचक्रमे । " अथ जीवंधरमहाराजः श्रवणकटुना प्रयाणध्वनिना प्रयाणे विश्रुते, प्रसरदश्रुजलपूरेषु पौरेषु तं प्रणामंप्रणामं तदीयगुणं स्मारंस्मारं तस्य यथोचितं वाचंत्राचमनेकप्रयाणपथमनुप्रयाय तत्प्रयासतः प्रतिनिवृत्तेषु, सामात्यं सत्यंधरमहाराजमपि समुचितवार्तया निवर्त्य, निवृत्तिपरैः परः सहस्र तरैर्नरैः संगतः, पर्यश्रुमुखैः पारिषद्यपार्थिवैर्विहिताञ्जलिभिरभिहितालोकशब्दैरनुद्रुतो द्रुतं विद्रावितविश्वलोकोपद्रवं भद्रपरिणामाञ्चितभव्यलोक सेव्यमव्याजरमणीयं सकलसारार्थ तीर्थकरनामधेयमहाभागधेयफलं चिचित्रविविधगोपुरसालं शतमखशैलूषं सर्वसुलभपीयूषं रत्नरैरजतनिर्माणं द्विषड्योजनप्रमाणं द्वादशगणवेष्टितं शुनासीरचोदितधनदप्रतिष्ठितं प्रेक्षमाणमानस्तम्भिमानस्तम्भमभ्यर्थितार्थदाननिपुणनिधिकुम्भं सर्वजनजङ्घादनजलोपेतजलाशयं वनशोभाकृष्टदेवाशयं पापास्रवनिवारणं पुण्यैककारणं सर्वलोकशरणं समवसरणमासाद्य, मणिमयमिव महोमयमिवादित्यमयमिव खेचरमयमिव भूचरमयमिव शर्ममयमित्र धर्ममयमिव नृत्तमयमिव वाद्य- मयमित्र गेयमयमिव गण्यमानं स्थलसप्तकं यथोचितोपचारं कारंकारमुल्लोकतोषादा लोकमालोकमतिक्रम्य, हृदयादपि प्रागेव कृतप्रयाणाभ्यां चरणाभ्यामेव भन्देतरभक्तिर्गन्धकुटीबन्धुरं श्रीमन्दिरं मन्दरमिव सहस्ररोचिः सहस्त्रशः परीयन्, वरिवस्यापर्यवसाने गणस्थानगतः स्थित्वा भगवतः श्रीमुखपद्माभिमुखं भक्तिमय इव जायमानः, परायत्तो भवन्,' आत्तगन्धसौगन्धिकगन्धवहे गन्धकुटीमध्ये निर्गन्धताया उपदेष्टारमप्यष्टमहाप्रातिहार्यैरलंकृतपरिसरमपाकृताखिलदोषतया व्यपेतविकृतवेषं कृतकृत्यतया कृत्यन्तरा

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184