Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
एकादशो छ। १६१ स्थानन्तसौख्यादिगुणनिर्माणं धर्म बलवन्मोहकर्मोदयेन यथावदवगन्तुमशक्ता अधर्मे धर्मबुद्धिं धर्मे चाधर्मबुद्धिं बनन्तस्तदुभयमप्यबुध्यमानाच प्राणिनः पृथिवीपते, निकामतीवनीचकर्मोदयान्निरये तिरोभूततीव्रभावपापात्तिरश्चि, प्रवर्तितसुकृतेतरद्वयान्मर्ये, सुकृतमात्रेण सुरेषु च कृताबतारास्तावद्भमन्ति यावन्निर्मूलितनिरवशेषकर्माणों भवेयुः । एवं निगदितायां नाकनरकनरतिरश्चां भेदेन चातुर्विध्यं गतायां गतौ, हिंसानृतस्तेयमैथुनमात्रपरा हिंस्रसत्त्वाईक्रूरपरिणामा अधर्माभिवर्धिनो धर्मद्रुहश्च घर्मादिनिरयं प्रयान्ति । एवंभूतपुरोपार्जितपुण्येतरबलेन बद्धनिरयायुषो निरयं प्रयातास्ते प्राणभृतः प्राण्यन्तरमारणप्रवीणप्राकृतपूतिगन्धोद्रेकादुद्वेजनीयामुद्दामदावज्वालालीढतालतरुसमाकारां नालिकेरफलोदररज्जुघदितभाजनमिव स्थपुटितां यावदायुः केनाप्यविघटनीयां सपटलभेदसप्तपृध्वीनु प्रथमनिरयादारभ्य क्रमादभिवृद्धेनापकर्षतः षडङ्गुलकलितत्रिहस्ताधिकसप्तकेन प्रकर्षतश्च पञ्चशतेन धनुषां समुच्छ्रितां मूर्ति मुहूर्तमात्रेगोर्ध्वगतिशीलावलम्बिनः पूर्णयन्तः शिततरनैकशस्त्राकीर्णतले पक्कतालफ़लानीव स्वयमेव पतन्ति । पुनरुत्पतन्ति च पतनवेगेन बहुयोजनानि । बहुधा विशीर्णमप्यर्ण इव तद्गात्रं क्षणमात्रेण घटतेतराम् । क्षशवटितप्रांशुप्रतीकान्प्रतीकारविरहादनारतमुत्पततः पततश्च नारकान्पातकाः परे पवनपथ एव मननक्षणनिष्पन्नैर्निस्त्रिंशैरंशतः कदलीदण्डा. मिव खण्डयन्ति । तांश्च परे। परस्परं च । कथंचिदवनौ चेत्संचरेयुरमी संजातभीकरदंष्ट्राङ्करैर्विक्रियागतशरारुचक्ररूपैः परैश्चय॑न्ते । तच्चर्वणभयेन पलायमानास्ते सर्वप्रदेशसुलभाभिरयःसूचिभिः प्रोतायः कुरङ्गा इघ सकीलवागुरां गताः परिस्खलनेन पतित्वा तास्वेव दारुणं क्रोशन्ति । क्रोशरभसविवृतास्यानमून्विवृततरास्यान्विधाय केचित् 'मूढ , त्वया पुरा मुदा खादितं मांसखण्डमेतत्' इति तप्तताम्रपिण्डं बलेन खादयन्ति ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184