Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
षष्ठो लम्बः ।
त्रचारित्राश्रयं तापसाश्रममध्वश्रमपरिच्छेदाय शिश्रिये । अपश्यच्च तापसानामञ्चितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितपःप्रपञ्चम् । अतर्कयच्चायं कृपालुः 'अहो देहिनां मोहनीयकर्मेदं दुर्मोचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः “ अयि तपोधनाः, 'न हिंस्यात्सर्वभूतानि' इति विश्रुतां श्रुतिं विद्वांसोऽपि किं हिंसानिदाने तपस्येकताना भवन्ति" इति । अदीदृशच्च दुर्दशो जडाञ्जटाजालभ्रष्टजलावगाहनलग्नजलचरविसराणां विविधैधोविवरविसर्पत्सर्पादिजन्तूनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसह्यं व्यसनम् । अबूबुधच्च तत्त्वमयं लब्धवर्णो वर्णिनां मध्ये कतिचिदत्यासन्नभव्यान्दिव्यैः श्राव्यहृद्यैरनवद्यानेकान्तोद्योतिभिर्वचोभिः । उदस्विदपवर्गश्रियस्तेऽपि श्रीजिनधर्ममगृह्णन् । अथ तावता सद्धर्माभिमुखतापसहृदयोद्वान्ततमसेव श्यामीभवति दिङ्मुखे, श्यामामुखविधेयकृत्यं मुनिजनैः सममनुष्ठाय काष्ठाङ्गाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्गसंदर्शनसावधानेन सवित्रा संगृहीतसम्यक्तबलबहिष्कृततापसमनस्तमोराशिपुनःसंपर्कभीत्येव निःशेषतमःस्तोमेऽपि निरस्ते, परिसरतरुसुप्तोत्थिते कुमारसौखसुतिक इव सविरावे सति वयसि, रुरुगणेऽप्युटजाङ्गणभुवमुत्सृज्य तृणचर्वणचापल्यादाश्रमोपशल्यमाश्रयति , शुचीतरविभागोपेक्षिणि सुगतमतावलम्बिनीवाम्बुजिनीरजःस्पर्शनलम्पटे वाति प्राभातिके मरुति, दिनपतिमुखावलोकनोद्दामदिवसश्रीराग इव प्रसरति तरुणातपे, तापसदारकसमितौ च समित्कुशपलाशहरणाय यथायथं विहरन्त्याम् , विहितप्रगेतनविधिस्ततो विनिर्गत्य सात्यंधरिरन्धकारितपरिसराणि कणदलिकदम्बकबलितशिखरकुसुमतुङ्गतरुसहस्राणि विशृङ्खलखेलत्कुरङ्गखुरपुटमुद्रितसिकतिलस्थलाभिरम्याणि स्वच्छसलिलसरःसमुद्भिन्नकुमुदकुवलयमनोज्ञानि विमलवनापगापुलिनपुञ्जितकलहंसरसितरञ्जितश्रवणानि दृप्यच्छाकरशृङ्गको

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184