Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 122
________________ सप्तमो लम्बः । नयनगमनवचनभूलतास्वधरकरचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धज़नादितरेभ्यो रोचन्ते । तस्मादशुचिमयीनामघमयीनामपवादमयीनामनार्जवमयीनाममार्दवमयीनां मायामयीनां मात्सर्यमयीनां महामोहमयीनां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदीरयामास । ततश्चैवमत्यद्भुतं सात्यंधरिवचनं निशम्याप्यनुपशाम्यन्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमञ्जसा साक्षात्करणन मुहुर्मुहुः संचिन्तयन्नेव कुमारस्तस्मादियाय । तदनु च कचित्प्रत्यन्तवीक्ष्यमाणविषमविषाणभीषणवृषकुलवृषस्याकलहविजृम्भितनि - पोषपूरितघोषघोषेण क्वचित्प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभूताध्ययनध्वनिना कचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबिडकोलाहलेन क्वचित्पाककपिशकणिशशालिशालेयक्षितिसुलभशालिसस्यलवनतुमुलेन सर्वतश्च संचरन्नितम्बिनीपदावलम्बनलम्पटताञ्चितम शिजानमञ्जीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजालरन्ध्रविनिर्यदगुरुधूमजालविलसदकालजलदागमाम_कषहर्म्यनिहनिखा - तनैकमणिमहःकल्पितशतमखचारुचापविभ्रमां विविधमहोत्सवताड्यमानलटहपटहपटुतररटितपर्जन्यगर्जितां शम्पाविडम्बिबिम्बाधरानिकरालोकप्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशन्विवशपौररामानयनसुमनोभिरविराममर्चितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिष्ट, ऐक्षिष्ट च कचिदसकृत्प्रहितपृषत्कास्पृष्टमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दिलावण्यवनं कमपि युवानम् । तदालोकनेन तदायासमपसारयितुमधिज्यधन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्थाय नात्यादरव्यापारितवामेतरपाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनरालीढशोभिनस्तस्यालोक्य सात्यंधेरेरधरिताखिलचापधरं चापदण्डारोपणे त

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184