Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
दशमो लम्बः ।
१४३
टवक्षःकवाटविगलदविरलरुधिरधारया धरातलोद्यत्परागपरम्परामाचचाम । ततः साक्षालक्ष्यमाणलक्ष्यतया निष्प्रतिघे सति बलौधे , पृषत्केबु केषुचिदगाधयोधहृदयावबोधलम्पटतयेव प्रतिभटोरःस्थलं प्रविशत्सु , परेषु परप्राणमोषणोपजातभीतिभराक्रान्तेष्विवान्तर्धातुमवनीमवगाहमानेषु , अ. परेषु स्वनायकनिकटाटनविघटनेच्छयेव पाटितप्रतीपगामिपत्रिषु , अन्येषु स्वयमपि जातमन्युभरेष्विवार्धपदविलुप्तपत्रभागेष्वपि परगात्रमधिविशत्सु , पुनरमित्रपर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितसहितकरालकामुककरम्बितजीवककुमारजीमूतनिष्ठ्यतसनिनदनीरन्ध्रशरनिकरनीरधारा - भिहन्यमानसैन्यसानुमत्संभूता संस्थितधरणीपतिकिरीटकेयूरहारजालवालुकाषण्डा सदण्डसितातपत्रपुण्डरीका वेगविलोठितगजगण्डशैला प्लबमानचामरविसरडिण्डीरा परेततुरगलहरीपरम्पराकुलकूलंकषा कर्षणरयाकृष्टावशिष्टाक्षोहिणीका क्षतजधुनी क्षणादिव प्रावहत् । तदेवं मारितपादाते दारितहास्तिके नश्यदश्वीये विपरिवर्तितरथकड्ये सारथिरहितरथिनि रंथारोहक्षुण्णक्षत्तरि स्तम्बरममरणसविषादनिषादिनि हस्त्यारोहविरहितहस्तिनि तुरङ्गमविगमसीदत्सादिनि अश्वारोहविवर्जिताश्वे च सति सैन्ये, त्रियामामिव दीर्घनिद्रोपद्रुतबहुलां तमोगुण प्रभवां च , बौद्धपद्धतिमिव पिशिताशिसेव्यां निरात्मकशरीरां च , गार्हस्थ्यप्रवृत्तिमिव मृतवारणविधुरां रक्तसुलभां च विलोक्य रणभुवम् ‘किमिति क्षोदीयांसो हिंस्यन्ते जन्तवः । स एव द्विषन्समूलकाषं कषणीयः' इति धिषणया पर्याणाञ्चितस्याअनगिरिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धु बंधरकुमारः सुरशत्रुसादनोद्यतः शक्तिधर इव करकलितशक्तिः, त्रिपुरदहनाभिमुखस्त्रिपुरान्तक इव नितान्तभीषणकोपाट्टहासः , दाशरथिरिव तपस्यानधिकारिणं शम्बुकं राज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारातिमाह्वयते स्म । आह्वानक्षण एव क्षीणतरादृष्टः स रुष्टः काष्ठाङ्गारः क्रोधवेगस्फुरदोष्ठपटतया नि

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184