Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 153
________________ १४२ * गद्यचिन्तामणौ सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनाशनिज्वलनज्वालास्पृष्टः स काष्टाङ्गारोऽप्यङ्गारीभूतकाष्ठवन्निःसारतां गतः । कथमन्यत्प्रस्तुतमन्यदुपस्थितं यदतिसंवित्सितो गोविन्दमहाराजः स्वयमस्मानतिसंधातुमवाप्ताभिसंधिरासीत् । 'इदं हि जगति लाभमिच्छतो मूलच्छेदः प्रकृत्या स्वयमस्माकममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्यतेनारोपितः । पुनरेनं च प्राप्य प्रतिष्कशङ्काकार्कश्यमपरं नः किं न कुर्यात् ' इति विमृशन्नेव विसृज्य तदास्थानमादृतप्रस्थानो भवन् 'अस्थाने पतितमिदं राज्यं त्यज्यतां त्वया नियोज्यखेटकेन' इति प्रकटाटोपपाटवैः पद्ममुखादिभिर्निर्भसितोऽयं कुत्सित. त्तिः पुनयुयुत्सुरासीत् । बभूवुश्च काष्टाङ्गारतो निकृष्टा विशिष्टास्तु जीवं. धरराजतो राजानः । ___ ततस्तपस्यामिव बलवदुपास्यां दुरन्ततया तु ततो नितान्तगर्हणीयाम् , मीमांसामिव परिहिंसाप्रवणभजनीयामीश्वरापेक्षतया तु ततो विलक्षणाम्, चार्वाकचर्यामिवानपेक्षितात्मनिर्वहणीयां गुरुद्वेषमूलतया तु ततोऽपि कुत्सनीयामाजिमारचयितुमतीव क्षोदिष्ठे काष्ठाङ्गारे प्रक्रममाणे, पराक्रमशालिषु पद्ममुखादिष्वपि युद्धाभिमुखेषु , पिनद्धाोरुके सशीर्षके च सति सादिनि निषादिनि च , समारोपितधनुषि धन्विनि, धनुर्धरचक्रवर्तिना चक्रव्यूहपरेण च पद्मव्यूहे कृते, चक्रशोभिशताङ्गनक्रभृति तुरंगतरङ्गिणि मातङ्गपोताङ्कित पादातपयसि परस्परस्पर्धेद्यतपारावारद्वय इव पक्षद्वये लक्ष्यमाणे , पटहध्वनेरपि ज्याघातरवे पांसुपटलादपि पत्रिणि गभस्तिमालिगभस्तेरप्युदस्तास्त्ररश्मिनिकरे रणरागादपि रक्तौघे प्रतिसमयं प्रकृष्यमाणे , धानुष्कैर्धानुष्का निषादिमिनिषादिनः सादिभिः सादिनः स्यन्दनारोहैः स्यन्दनारोहा युयुधिरे । तावता धरणी धरणीपतिमरणभीत्या रणनिवारणायेव रेणुपटलापदेशेन परस्परदर्शनं परिजहार । मिथोदर्शनापेक्षिणीवाक्षोहिणी तत्क्षण एव शिलीमुखमुखविघटितविशङ्क

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184