Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 157
________________ गद्यचिन्तामणौ क्षितम् , आकालिकतुषारवारिशीकरविसरैरिव विच्छुरितम् , विसृमरपर्याप्तधूपस्तूपधूमनिष्पन्नधूमयोनिपरस्परसंघट्टविघटितजठरान्तर्मुक्तमुक्ताफलकान्तिवातेनेव वीधं वियद्विदधानः पारिषद्यचक्षुराह्लादभाभारेण परीतः स कृतज्ञप्राग्रहरः कृतज्ञचरः सुदर्शननामा देवः सादरमन्तरिक्षादवारुक्षत् । अभ्यषिचच्च तदभिषेकाधिकृतैरमा सपरितोषं निजपरिवारामरपरम्परानीतया परा ाखिलतीर्थाम्बुपूरपूरितया परिसरप्रत्युप्तपद्मरागप्रभाजालजटिलकिसलयापीडया महनीयरत्नमहौषधिबीजसमवापसमग्रमङ्गलशालिककव्या शातकुम्भकुम्भपरिपाट्या भगवन्तमिव मन्दरगिरिमस्तकनिविष्टं विष्टरश्रवा हरिविष्टरविराजिनं जीवंधरमहाराजम् । अभिषेकसलिलौघे च संसिद्धिसिद्धनैर्मल्ये निर्मलतमतदङ्गस्पर्शनेन पावनतां प्रतिपद्य पापभूपसंपर्कपांसुलामपांसुलां कर्तुमिव काश्यपी व्यश्नुवाने, भृशमुन्मूलितरागाणामप्युत्कण्ठावहं गायत्किनरकण्ठीनां गणेन सुरकिंकरवाद्यमानैरमानुषातोद्यैरभिनवरसानुबन्धमभिनन्दन्तीनामप्सरसां सार्थेन चिरममर्त्यलोकायमाने भुवने भुवनैकशरण्यं लावण्यमूर्ति मूर्धाभिषिक्तमेनं स्वयमेव परार्ध्यरत्नाभरणैः सपरिष्करणं कृत्वा प्रकृतिसिद्धरामणीयकस्यास्य भूषणानां च भूष्यभूषणभावसाधारणतां समालोक्य सस्नेहविस्मयस्तिमितचक्षुषि चक्षुष्यमेनं पुन:पुनराश्लिष्य यक्षेन्द्रे स्वमन्दिरमीयुषि, राजेन्द्रोऽपि सदातननरेन्द्रसरभसोत्थानसंरम्भच्युतकर्णशिखरगतकर्णपूरोत्कलिकापुनरुक्तपुष्पोपहारमण्ड - नादास्थानमण्डपादुत्थाय ततो निर्गल्य प्रसरत्यपि प्रणामलीलालालसानां भूभुजामुन्मेषिणि चूडामणिमरीचिनिचयबालातपे ससंभ्रममावर्जितमकुटप्रच्युतापीडकुसुमडोलायमानमधुकरकुलान्धकारकुटमलायमानकोमलाञ्जलिकमलसहस्रकरम्बितमम्बरतलमालोकयन् 'जय जय' इति तारतरमुद्गायतो वन्दिबृन्दस्यामन्ददुन्दुभिगम्भीरनिर्घोषानुयातमायतशङ्खध्वानमिश्र प्रहतमद्दलस्निग्धनिर्दादमांसलं कांस्यतालरवसंकुलमालोकशब्दमाकर्णयन्

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184