Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 144
________________ दशमो लम्वः। १३३ स्मितेन करप्रचारेण च प्रीणयन् प्रियवल्लभामायल्लकायत्तां गन्धर्वदत्तां म्लानमालामिव गुणमालां च संलापसहस्त्रैरुल्लाघयन्स्वयमप्युल्लोकहर्षः पुनरुद्धर्षमयेषु केषुचिद्वासरेषु निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्रस्थाने मतिमकरोत् । ____ अथ यात्रार्हपवित्रलग्ने पवित्रकुमारः पद्ममुखप्रमुखैः प्रियसखैरनुजेनाप्यनुप्लुतः प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदास्रबिन्दुसेकेन मन्दयन्तीमिव मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुनिवहं च प्रयत्नतः प्रतिनिवर्त्य निरगात् । आपञ्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम् , फलभारावनम्रतया समृद्धिमतामपि विनयावनम्रत्वमतीव शोभाकरमितीव दर्शयद्भिः शालिभिः शालीनम् , विजम्भमाणपूगकसरामोदामोदितदशदिशाभोगम् , परिपाकपिशङ्गेक्षुकाण्डस्फुटितविकीर्णमुक्तानिकरैस्तारकितमिव तारापथमधः संदर्शयन्तम्, प्रशस्तमणिमयसमस्तप्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबलयन्तमिव त्रिलोकीम् , राज्यलक्ष्मीभिरिव डिण्डीरपिण्डपाण्डरपुण्डरीकमण्डिताभिः कृशोदरीभिरिव लोलकल्लोलवालिविलसदुदराभिः पञ्चमकालप्रपञ्चमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिबहुविदेहभूमिभिर्बहुवयःसमताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम् , महाराजमिव महावाहिनीसंवर्धितैश्वर्यं परिहृतपरपार्थिवतया ततोऽपि पराय॑म् , जिनदीक्षाविधिमिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनीयम् , पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदं जरोपरोधविधुरतया ततोऽपि श्लाघनीयम् , पद्मालयापतिभिरप्यकृष्णैर्वृषचारिभिरप्यरुदैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रियैश्चरमदेहप्रायैर्निवासिजनैराश्रिततया विदेहाख्य इति विश्रुतं जनपदम् । 12.

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184