Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
षष्ठो लम्बः ।
१०३
चितोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छायायां शौक्तिकजालवालुकमनोज्ञे हृदयज्ञान्तिकचरसत्वरसमीकृतस्थले कुमारमन्वासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्यौत्सुक्यकौशलशंसिकुशलपरिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नखंपचपांसूत्करदुःसहाध्वन्याध्वश्रमाश्रितविश्वजनपदपथिकनिबिडितपाद - पमूले कथितसलिलसरःपराचीनतृष्यत्पतत्रिणि मृगतृष्णकाकुलितमृगकुले ललाटंतपे भवत्यम्बरमणौ कुरुकुलशिखामणये गुरुतरनिजमुखप्रसादकण्ठोक्तां निजोत्कण्ठां पुनरुक्तामिव विवत्रे- “कुमार , मयि ते प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे , तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावैमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसोचितविधि विधातुम्" इति । सोऽप्यसुप्रणयिनामप्यर्थितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अस्त्वेवम्' इत्यन्वमस्त । ततश्च सर्वगुणभद्रः पवित्रकुमारोऽयं गुणभद्रप्रसारितं पाणिं पाणौ कुर्वन्सर्वसहायाः सहेलमुत्थाय कायरोचिःप्रतिहतसहसरोचिः सहस्रकूटजिनालयं सहस्रशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्धटद्धाटककूटकोटिपिनद्वध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभमिवामन्त्रयमाणं सान्द्रचन्द्रातपातिशायिचन्द्रशालानिलृप्तनिरतिशयरत्नविसरविसर्पिकिरणप्रकरेणेव प्रतिगृह्णन्तं प्रसभोपसर्पदतिघोरपौरुषपदप्रचुरस्तनितानुकारिरणितश्रवणारब्धताण्डवगृहशिखण्डिबृन्देन स्वयमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादरधात्रीमुखाकर्णितसुभद्रसुता - भर्तृसांनिध्याडितहर्षक्रीडाकीरविरावमिषेणाशिषमिव प्रयुञ्जानम् , पुञ्जमिव संपदः, पूर्तिमिव शोभायाः , मूर्तिीमव कोलाहलस्य , अतिभद्रसुभद्रसदनोद्देशं निरवकाशितजननिवेशं वेशपुरंध्रीनेत्रव्रजविरचितविविधतोरणस्त्रजः समतीत्य समासदत् ।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184