Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
द्वितीयो लम्बः
शयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधनं समर्पयितुमस्मै कालोऽयमित्याकलय्य गुरुशुद्धिप्रदर्शनेन सविस्रम्भमस्य मनः कर्तुं स्ववृत्तान्तमन्यकथाव्यावर्णनव्याजेन व्याजहार — " वत्स, वन्दमानविद्याधरमकुटताडितपादपीठकण्ठेोक्तमहिमा महीपतिरभूदभूतपूर्वः सर्वविद्यासाम्राज्यसंपदुन्मेषविभ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमुचामम्बराभोगमलिम्लुचं महेन्द्रनीलमणिवातायनतिलकितं सौधवलभीमघ्यं सुमध्याभिः सहाधिवसन्घनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवाभ्रमपश्यत् । पश्यत्येव तस्मिन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नैशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेद : ' सर्वथा सलिलबुद्बुदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः । तरुतलपुञ्जिताः पर्णराशय इव प्रबलपवन परिस्पन्देन सुकृतपरिक्षयेण तत्क्षण एव नश्यन्ति संगताः संपदः । पाकशासनशरासनमिव विश-रारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानीमुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथमपि कालं कंचिदवस्थितिभाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्वं स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलासपराङ्मुखः परनिरपेक्षं निरवधिकमनुपाधिकं च सुखमनुभवितुमिच्छन्पुत्रशिरसि निवेश्य राज्यभारं भवसंज्वरपरिहरणविचक्षणां जिनदीक्षां प्राविक्षत् । प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्राग्जन्मार्जितदुर्जरपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भस्मकेन पर्यभूयत । परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत इव दुर्लभं धनं परमं तपः पर्यत्यजत् । अवर्तिष्ट च यथेष्टं स्वैरविहरणावकाशप्रदानपण्डितेन पाषण्डिवेषेण । स पुनरङ्गार इव भस्मना भस्मकमहारोगेण तिरोहितदीप्तिः सम्यक्त्वपूतमतिस्तत इतो विहरन्ननव
1

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184