Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२४१-अभिधानराजेन्द्रः-भाग 3 चेइय (सिद्धार्थराजस्य) आह चएतेनैव समर्यिताऽभ्युदयिकी धां च कल्पोदिता, श्री सिद्धार्थनृपस्य यागकरणप्रौढिर्दशाहोत्सवे। श्राद्धः खल्वयमदिमाङ्गविदितो यागं जिनार्चा विना, कुन्निान्यमुदाहृता व्रतभृतां त्याज्या कुशास्त्रस्थितिः॥६६|| (एतेनेति) एतेनैव द्रौपदीचरितसमर्थनेनैव, आभ्युदयिकी अभ्युदयनिर्वृत्ता, धा च धर्मादनपेता च, कल्पोदिता कल्पसूत्रप्रोक्ता, श्रीसिद्धार्थनृपस्य श्रीसिद्धार्थनाम्नो राज्ञो भगवत्पितुः, दशाहोत्सवे दशदिवसमहे, यागकरणस्य प्रौढिः प्रौढता समर्थिता उपपादिता। न च यागशब्दार्थोऽन्यः स्यादिति ततमाह-खलु निश्चितं, अयं सिद्धार्थराज आदिमाङ्गविदितः आचाराङ्गप्रसिद्धः श्राद्धः श्रीपार्श्वपत्यीयश्रमणोपासकः, जिनार्चा विनाऽन्य लोकप्रसिद्ध यागं, न कुर्यात्।यतः व्रतभृतां कुशास्त्रस्थितिस्त्याज्या। अन्यश्च यागः कुशास्त्रीयः। कल्पसूत्रपाठो यथा--"तएणं सिद्धत्थेराया दसाहियाए ठिइवडियाएपवट्टमाण्णीएसइए असाहस्सिए अ सयसाहस्सिए अं भेमाणे ये पडिच्छमाणे य पडिच्छवेमाणे य एवं च णं विहरइ।" व्याख्या-(दसाहिए त्ति) दशाहिकायां दशदिवसमानायां, स्थितौ कुलमर्यादायां, पतितायां गतायां, पुत्रजन्मोत्सवप्रकियायां तस्यां प्रवर्त्तमानायां, शतिकान् शतपरिमाणान् साहरित्रकान् सहस्त्रप्रमाणान् शतसाहस्त्रिकान् लक्षप्रमाणान्यागान् देवपूजाः दानान्पर्वदिवसादौ दानादीन् भागान्ददत् दापयन् लाभयन् प्रतीच्छन् गृहन् प्रतिग्राहयन् विहरन्नस्ति / एवं श्रीसिद्धार्थनृपेण परमश्राद्धेन देवपूजा कृता चेदन्येषां कथं न कर्तव्या? तस्य श्रमणोपासकत्वे आचारालापकश्चायम्-"समणस्स भगवओ महावीरस्स अम्मापियरो पासावज्जिज्जा समणोवासया आवि हुत्या। तेणं बहूई वासाई समणोवासगपरिआई पालइत्ता छण्हं जीवनिकायाणं सरक्खणनिमित्तं आलोइता जिंदित्ता गरहित्ता अहारिहं उत्तरगुणपायच्छितं पडिवज्जित्ता कुससंथारं दुरूहित्ता भत्तं पचक्खाइति, पचयखाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झूसियसरीरा काले मासे कालं किचा तसरीरं विप्पजहेत्ता अचुए कप्पे देवत्ताए उववन्ना। तओ णं आउक्खएणं चइत्ता महाविदेहे वासे चरिमेणं ऊसासेणं सिज्झिस्संति, परिनिव्वाइस्संति, सव्वदुक्खाणमतं करिस्संति 'त्ति। यथा च सिद्धार्थराजव्यतिकरे यागशब्देन पूजा कृतेति समर्थितं, तथा महाबलादिव्यतिकरेऽपि दृश्यम् / अपि चशाश्वताशाश्वततीर्थान्याचार्यादींश्च प्रत्यभिगमनसङ्घपूजनादिना सम्यक्त्वनैमल्यं स्यादित्युक्तमाचारनियुक्तो। तथाहि"तित्थयराण भगवउ-पवयणपावणिअऽइसयट्ठीण। अहिगमणनमणदरिसण-कित्तणसंपूअणत्थुणणा ||1|| जम्माभिसेयनिक्खम-णचरणनाणुप्पयाणनिव्वाणे। दियलोअभवमंदर-नंदीसरभोमनगरेसु / / 2 / / अट्ठावयमुग्जिते-गयग्गपयधम्मचक्के या पासरहावत्तं चिय, चमरुप्पायं च वंदामि // 3 // वृत्तिर्यथा-दर्शनभावनार्थमाह-'तित्थयरगाहा / तीर्थकृतां भगवतां, प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिकानामाचार्या दीनां युगप्रधानानाम्, तथाऽतिशयिनामृद्धिमतां केवलिमनःपर्याया-- वधिमचतुदर्शपूर्वविदां, तथाऽऽमर्पोषध्यादिप्राप्त:नां, यदभिमुखगमनं, गत्वा च नमनं, नत्वा च दर्शनं, तथा गुणोत्कीर्तनं, संपूजनंगन्धादिना, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, तया हि दर्शनभावनया दर्शनशुद्धिर्भवतीति।।१। किं च -"जम्माभिसेयगाहा'' "अट्ठावयगाहा'' तीर्थकृतां जन्मभिषेकभूमिषु तथा निष्क्रमणचरणंज्ञानोत्पत्तिनिर्वाणभूमिषु, तथा देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्विपादौ भौमेषु पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रिया / इत्येवमष्टापदे, तथा श्रीमदुज्जयन्तगिरी, गजाग्रपदे दशार्णकूटवर्तिनि, तथा तक्षशिलायां धर्मचक्रे, तथाऽहिच्छत्रायां श्रीपार्श्वनाथास्य धरणीन्द्रमहिमास्थाने, एवं रथावर्त्तप्रवर्तने वैरस्वामिना यत्र पादपोपगमनं कृतम्, यत्र च श्रीवर्द्धमानस्वामिनमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् / एतेषु यथासंभवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुतो दर्शनशुद्धिर्भवतीति। तथा"अरिहंतसिद्धचेइय-गुरुसुअधम्मे य साहुवग्गे य। आयरिएँ उवज्झाए, पवयणए सव्वसंघे य।।१।। एएसु भत्तिजुत्ता, पूअंता अहारिहं मणुण्णमणा। सासणमणूसरंता, परित्त-संसारिआ भणिआ"||२| द०प०। इतिभरणसमाधिप्रकीर्णके, तथा भावनमस्कार प्रतिपाद्यमानो दर्शनमोहनीयादिक्षयोपशमेन अर्हत्, अर्हत्प्रतिमा, अर्हन्तः, अर्हत्प्रतिमाः, साधुरर्हतप्रतिमा चेति युगद्वयम्, साधुर्जिनप्रतिमाश्च, साधवो जिनप्रतिमा च, साधवो जिनप्रतिमाश्च, इत्यष्टस्वपि भड्नेषु लभ्यते। उक्तम्-"नाणावरणिजस्स उ, दंसणमोहस्स तह खओवसमे / जीवमजीवे अट्ठसु, भगेसु अ होइ सव्वस्स " ||1|| इति गाथया नमस्कारनियुक्तौ-"तित्थयरा जिणचउदस, संविग्गा वाअसंविग्गा / सारूवियवयसपडिमाओ भावगामा उ" ||1 / / इति कल्पभाष्येण च, जिनप्रतिमादर्शनाद्याभावेऽपि केषाञ्चित्सम्यक्त्वलाभदर्शनाद्यभिचार इति नाशड्नीयम्, चित्रभव्यत्वपरिपाकयोग्यतया प्रतिभव्यं सम्यक्त्वहेतूनां वैचित्र्यात्,तथात्वे कस्य चित् तीर्थकृत्, कस्यचिद्ग-णधरः, कस्यचित्साधुः, कस्यचिन्जिनप्रतिमादिकमित्येवं वैचित्र्यात् स्वजनभव्यत्वपरिपाकद्वारेण व्यभिचाराभावात्। अन्यथा तीर्थकृतोपि सम्यक्त्वहेतवो न भवेयुः,तीर्थकरमन्तरेणापिगौतमादिबोधितानां बहूनां सम्यक्त्वलाभप्रतीतेरन्वयव्यतिरेक सिद्धश्चायमर्थः / अत एव सम्यग्दृष्टिपरिग्रहिताः सम्यग्भाविता अपि दृष्टा भव्यजीवस्या-र्द्रकुमारादेरिव सम्यग्दर्शनाद्युदयमानमुपलभ्यते / ततः 'कारणे कार्योपचारः" इति कृत्वा ता अपि भावग्रामा भण्यन्ते इति, तथा षडावश्यकान्तर्गतश्रावकप्रतिक्रमणसूत्रे साक्षादेव चैत्याराधनमुक्तम्-"जावंति चेइआई, उड्डे अ अहे अतिरियलोए / सव्वाइंताइँ वंदे, इह संतो तत्थ संताई" // 44 // इति चतुश्वत्वारिंशत्तमगाथया। एतचूर्णिर्यथा-"एवं चउवी साए जिणाणं वंदणं काउ संपइ सम्मत्तविसुद्धिणिमित्तं तिलोअगयाणं सासयासासयाणं वंदणं भण्णइ-(जावंति)"प्रति०। (19) उवलोकादिषु जिनप्रतिमास्थितिः"इत्थ लोओ तिविहो-उड्ढलोओ, अहोलोओ, तिरियलोओ अ / तत्थउडलोगो सोहम्मीसाणाइया दुवालसदेवलो गा;

Page Navigation
1 ... 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388