Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२६६-अभिधानराजेन्द्रः-भाग 3 चे इय आसीदेवेत्यपिशब्दार्थः / साधुदर्शने मुनिजनावलोकने, यो भावोऽध्यवसायः स्वाशयवृद्धिरूप एव, "पेच्छिस्सं एत्थ अहं, वंदणगनिमित्तमागए साहू / कयपुण्णे भगवंते, गुणरयणनिही महासत्ते / / 1 / / " इति प्रागुक्तगाथोक्तः, तेन यदुपार्जितं कर्म पुण्यरूपं तत्तथा तस्मात्साधुदर्शनभावार्जितकर्मतः, तुशब्दः पुनरर्थः, गुणरागो गुणपक्षपातो. भवति स्वरूपेणैव। ततः काले चावसरे पुनः / साधुदर्शनं मुनिपुङ्गवावलोकनम्, ततएव जायते / किं भूतम्? यथाक्रमेण यथापरिपाटि / अथवा अथाऽनन्तरं, क्रमेण परिपाट्या, गुणकर तु गुणकरणशीलमेव, इति गाथार्थः // 46 // पडिवुज्झिस्संतन्ने, भावज्जियकम्मओ य पडिवत्ती। भावचरणस्स जायति, एगंतसुहावहाणियमा।।४७।। प्रतिभोत्स्यन्ते बोंधि लप्स्यन्ते, अन्येजिनभवनविधायकापेक्षयाऽपरे, इत्यादिरूपो यो भावोऽध्यवसायः स्वाशयवृद्धिरूप एव, “पडिवुज्झिस्संति इह, दळूण जिणिंदबिंबमकलंकं / अन्ने वि भव्वसत्ता, काहिति तओ परं धम्भ / / 1 / / " इति प्रागुक्तगाथोक्तः, तस्माद्यदर्जितं कर्म कुशलानुबन्धिपुण्यस्वरूपं तत्तथा तस्मात्प्रतिभोत्स्यन्तेऽन्ये भावार्जितकर्मतः सकाशात्, चशब्दः पुनरर्थ, प्रतिपत्तिरभ्युपगमः, भावचरणस्य पारमार्थिकचारित्रस्य, जायते भवति, एकान्तसुखावहा मोक्षशर्मावहा, अव्यभिचारतो वा सुखावहा, नियमादवश्यतया, इति गाथार्थः // 47 // अपतिवडिमयसुहचिंता-भादज्जियकम्मपरिणतीए उ। गच्छति इमीइ अंतं, ततो य आराहणं लहइ॥४८।। अप्रतिपतिता स्थिरा या शुभचिन्ता प्रशस्तानुचिन्तनं स्वाशयवृद्धिरूपा "ता एयं मे वित्तं, जमेत्थमुवओगमेइ अणवरयं / इय चिंतापरिवडिया, सासयवुड्डीउ मोक्खफला ||1 // " इति प्रागुक्तगाथाऽभिहिता, तल्लक्षणो यो भावः, तेनार्जितं यत्कर्म कुशलरूपं, तस्य या परिणतिः सा तथा, तस्या अप्रतिपतितशुभचिन्ताभावार्जितकर्मपरिणतेः सकाशात्, तुशब्दः पुनरर्थः / गच्छति याति, अस्याश्चरणप्रतिपत्तेः, अन्तमवसानम्, 'अप्रतिपतितां पालयतीत्यर्थः / ततश्चरणप्रतिपत्त्यन्तगमनात्पुनः, आराधनां चरणाराधकत्वम्, लभते प्राप्नोति, विशुद्धचरणाराधको भवतीत्यर्थः / अप्रतिपतितचरणस्यैव हि चरणाराधना भवति, इति / गाथार्थः / / 48|| एतदेव दर्शयन्नाहणिच्छयणया जमेसा, चरणपडिवत्तिसमयतो पमिति। आमरणंतमजस्सं, संजमपरिपालणं विहिणा / / 46|| निश्चयनयान्नयविशेषमतेन, व्यवहारनयात्तु मरणावसरचरणासेवनमात्रमाराधनेत्यभिप्रायेण निश्चयनयात् इत्युक्तम् / यद्यस्मात्, एषा प्रागुक्ताऽऽराधना भवति / कुतः कथं तदित्याह-चरणप्रतिपत्तिसमयतः चारित्राभ्युपगमकालात्, प्रभृति तदादितः, आमरणान्तं मृत्युलक्षणावसानं यावत्, न पुनस्तदारात् / अजस्रमनवरतं, संयमपरिपालनमहिंसाद्याराधनम्, विधिनाऽऽगमोक्तन्यायेन / अतस्तदन्त आराधना लमते इति युक्तम् / इति गाथार्थः // 46 // यद्याराधनां लभते ततः किं स्यादित्याहअ राहगो य जीवो, सत्तट्ठभवेहिं पावती णियमा। जम्मादिदोसविरहा, सासयसोक्खं तु णिव्वाणं / / 5 / / आराधकश्च ज्ञानाद्याराधनावान्, चशब्दः पुनरर्थः / जीवः प्राणी, सप्ताष्टभवैः सप्तभिरष्टाभिर्जन्मभिरित्यर्थः / इदं च जघन्याराधनामाश्रित्योक्तम्, अन्यथा तद्भव एव कश्चित्सिद्ध्यतीति / एते च सप्ताष्टौ वा भवा आराधनायुक्ता द्रष्टव्याः / इतरथा तु सप्तैव प्राप्नुवन्तीत्याराधकस्य मनुष्येष्वनुत्पादादिति / प्राप्नोति लभते, नियमादवश्यंतया, कुतः किं विधं किमित्याह-जन्मादिदोषविरहाजातिजरामरणप्रभृतिदूषणवियोगात्, एतच्च पदं शाश्वतसौख्यमित्यनेनं प्राप्नोतीत्यनेन वा संबन्धीनयम् / शाश्वतसौख्यं तु नित्यसुखमेव, न तु स्वास्थ्यमात्रम्, निर्वाणं नितिम्, इति गाथार्थः / / 50 / / उक्तो जिनभवनविधिः / पञ्चा०७ विव०। जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम्; यतः'नवीनजिनगेहस्य, विधाने यत्फलं भवेत् / तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते / / 1 / / जीर्णे समुद्धृते यावत्, तावत्पुण्यं न नूतने / उपमर्दो महास्तत्र, स्वचैत्यख्यातिधीरपि' / / 2 / / तथा"राया अमच्च सिट्टी, कोडुवीए वि देसणं काउं। जिण्णे पुव्वाययणे, जिण-कप्पी वा वि कारवइ / / 1 / / जिणभवणाई जे उ-द्धरंति भत्तीइ सडियपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ // 2 // " जीर्णचैत्योद्धारकारणपूर्वकमेव चे नव्यचैत्यकारापणमुचितम्, तत एव संप्रतिनृपतिना एकोननवतिसहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव / एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एक बहवो व्यधाप्यन्त इति / चैत्ये च कुण्डिकाकलशी रसप्रदीपादिसर्वाङ्गीणोपस्करणकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिदानं, यथाऽविच्छन्ना पूजा प्रवर्ततम् इति द्वारम् / इत्थं च चैत्ये निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् / यदाह षोडशके श्रीहरिभद्रसूरिः-"जिनभवने जिनबिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥१॥ध०२ अधिक। (25) जिनबिम्बकारणविधिः-जिनभवनं च जिनबि म्बाध्यासितमेव भवतीति तद्विम्बप्रतिष्ठाविधि प्रतिपिपादयिषुर्मङ्गलादि प्रतिपादनायाऽऽहनमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छं। जिणबिंबपइठ्ठाए, विहिमागमलोयणीतीए।।१।। नत्वा प्रणम्य, देवदेवं पुरन्दरादिदेवानामाराध्यम्, वीरं वर्द्धमानस्यामिनम्, सम्यग्भावशुद्ध्या, वक्ष्ये इत्येतत्क्रियाया वेदं विशेषणम् / ततश्च सम्यगवैपरीत्येन, समासतः संक्षेपेण, वक्ष्ये अभिधास्ये,जिनबिम्बप्रतिष्ठायाः प्रतीतायाः, विधि विधानम्, आगमनलोकनील्यो जिनप्रवचनन्यायेन, लौकिकन्यायेन चैत्यर्थः / लोकग्रहणेन चेदं दर्शयतिलोकनीतिरपि क्वचिज्जिनमताविरुद्धाश्रयणीया, अत एव प्रासादादिलक्षणं तदुक्तमप्याश्रीयते, इति गाथार्थः ||1||

Page Navigation
1 ... 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388