Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छण्ण 1350- अमिधानराजेन्द्रः - भाग 3 छण्ण त्रि० (छन्न) छद-चुरा०क्तः। आच्छादिते, निर्जने, रहसि, न०। याच० / व्याप्ते, रा०। अव्यक्तस्वरे,ध०२ अधि० अप्रकाशे, नि० चू०१ उ०।दर्भादिभिराच्छादिते, आचा०१ श्रु०२ अ०२ उ०। कल्प०। प्रच्छन्ने, अतिलज्जलुतयाऽव्यक्तवचने, भ०२५ श०६ उ० / मायायाम, तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात् / सूत्र०१ श्रु०२अ०२ उ० / षष्ठे आलोचनादोषे, "छण्णं तह आलोए, जह नवरं अप्पणा सुणइ।" इति। स्था०१०ठा०। प्रच्छन्नम् आलोचयति। किमुक्तं भवति? लज्जालुतामुपदपिराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोषः / व्य०१ उ० / “जं छन्नं तं न वत्तव्यं, एसा आणा णियंटिया / " " 'छणु' हिसायाम् / हिंसाप्रधाने, तद्यथावध्यतां चौरोऽयम्, लूयन्तां केदाराः, दम्यन्तां गोरथका इति। यदि वा (छन्नं ति) प्रच्छन्नं यल्लोकैरपि प्रच्छाद्यते तत्सत्यमपिनवक्तव्यम्, इति / सूत्र०१ श्रु०६ अ०। छण्णउइच्छेयणदायरासि पुं० (षण्णवतिच्छेदनदायराशि) योराशिर र्द्धनार्द्धन विद्यमानः षण्णवतिवारान् छेदं सहते, पर्यन्ते सकलमेकस्वरूप पर्यवसितं भवति / तस्मिन्, प्रज्ञा०१२ पद / (एष च 'सरीर' शब्दे दर्शयिष्यते) छण्णंग न० (छन्नाङ्ग) स्त्रीणां कुझरकुचोरुभुतिषु गुप्ताङ्गेषु, बृ०१ उ०। छण्णपय न० (छन्नपद) कपटे, मातृस्थाने, गुप्ताभिमाने, सूत्र०१ श्रु०४ अ०१ उ०। छण्णपयोपयजीवि (ण) त्रि० (छन्नपदोपजीविन) मातृस्थानोप जीविनि, सूत्र०२ श्रु०६ अ०। छण्णमाय त्रि० (छन्नमातृक) प्रच्छन्नमातृके, तं०। छण्णय पुं० (छन्नक) जन्मान्तरशकटजीवे. स्था०१० ठा० / व्य० / छण्णसामत्थ त्रि० (छन्नसामर्थ्य) परलिङ्गग्रहणेनाऽऽच्छादितस्वस्वरूपे, व्य०१ उ०। छण्णाम न० (षणनामन्) षण्णामर्थानामभिधायके शब्दे, अनु०। से किं तं छन्नामे ? छन्नामे छविहे पण्णत्ते / तं जहा उदइए उवसमिएखइए खओवसमिए परिणामिए संनिवाइए।। "से किं तं छन्नामें" इत्यादि। अत्रोदयिकादयः षड् भावाः प्ररूप्वन्ते। तथा च सूत्रम्-“उदइए" इत्यादि / अत्राह-ननु नाम्नि प्रक्रान्ते तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति / नैतदेवम् / नामनामवतोरभेदोपचारात्तत्प्ररूपणस्याप्यदुष्टत्वात्, एवमन्यत्रापि यथासंभवं वाच्यम्। अनु०। छण्णाल न० (षड्नाल)त्रिकाष्ठिकायाम्, औ०। छण्णालिय न० (षड्नालिक ) त्रिकाष्ठिकायाम्, भ०२ श०१ उ० / ज्ञा०। छत्त न० (छत्र) 'छद्' अपवारणे / आतपं छादयति इति छत्रं प्रसिद्धम्। तदाकारो योगोऽपि छत्रम्। तस्मिन्, सू०प्र०१२ पाहु०। रा०। प्रश्न०। अष्टत्रिंशे 38 द्वासप्ततिपुरुषकलाभेदे, जं०२ वक्ष०ा नवमे चतुर्दशरत्नभेदे, प्रव० / छत्रम् चक्रवर्तिहस्तसंस्पर्शप्रभावसंजातद्वादशयोजनाऽयामविस्तरं सत् वैताढ्यनगोत्तरविभागवत्तिम्लेच्छानुराधितमेघकुमाराद् / वृष्टाम्बुभरनिरसनसमर्थनं च भवति, सहस्रकाञ्चनशलाका-परिमण्डितं निव्रणप्रशस्तकाञ्चनमयोदण्डदण्डं वस्तिप्रदेशे पञ्जरविराजितं राजलक्ष्मीचिह्नमर्जुनाऽभिधानपाण्डुरस्वर्ण प्रत्यवस्तृतपृष्ठदेशं शारदसंपूर्णपूर्णिमामृगाङ्कमण्डलमनोहरं तपनाऽऽतपवातवृष्टिप्रभृतिदोषक्षयकारकम् / प्रव०२१२ द्वार। प्रज्ञा०। आतपत्रे, षो०१५ विव० आ० म०। पञ्चा। सूत्र०। आचा० भ०। अनु०। उत्त०ा छात्रे, आ०म०प्र०। नि० चू०। छत्रवर्णक एवं दृश्यते“अडभपडलपिंगलुज्जलेण" अभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं, पिङ्गलंच कपिशंसुवर्णकञ्छिकानिर्मितत्वात उज्वलं निर्मलं यत्तत्तथा / अथवा-अभ्रमभ्रकं पृथिवीकायपरिणामविशेषः, तत्पटलमिव पिङ्गलं चोज्ज्वलंचतत्तथा, तेन। “अविरलसमसहियचंदमंडलसमप्पभेणं" अविरलंघनश्लाकाबन्धेन, समं तुल्यं शलाकायोगेन (सहिय त्ति) संहतमनिम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभ च यद्दीप्त्या तत्तथा, तेन / “मंगलसमयभत्तिच्छेयविचित्तियखिंखिणिमणिहेमजा-लविरइयपरिगयपेरंतकणगघंटियापयलियकिणिकिणिकिणितसुति-सुहसुभहरसद्दालसोहिएणं" मङ्गलाभिङ्गिल्याभिः, शतभक्तिभिः शतसंख्यविच्छित्तिभिः, छेकेन निपुणेन शिल्पिना, विचित्रितं यत्तत्तथा, किङ्किणीभिः क्षुद्रघण्टिकाभिः, मणिहेमजालेन च रत्नकनकजालकेन विरचितेन कृतेन, विशिष्टरतिदेन वा, परिगतं परिवेष्टितं यत्तत्तथा, पर्यन्तेषु प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दवतीभिश्च 'आल' प्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा। ततः पदत्रयस्य कर्मधारयोऽतस्तेन। “सप्पयरवरमुत्तदामलंबंतभूसणेणं" सप्रतराणि आभरणविशेषयुक्तानि यानि वरमुक्तादामानि वरमुक्ताफलमालाः (लंबंत त्ति) प्रलम्बमानानि तानि भूषणानि यस्य तथा, तेन / “नरिंदवामप्पमाणरुद्रपरिमंडलेणं" नरेन्द्रस्य तस्यैव राज्ञोव्यामप्रमाणेन प्रसारितभुजयुगलमानेन रुदं विस्तीर्ण परिमण्डलं वृत्तभागो यस्य स तथा, तेन / "सीयायववायवरिसविसदोसविनास-णेन" शीतातपवातवृष्टिविषजन्यदोषाणां शीतादिलक्षणदोषाणां विनाशनं यत्तत्तथा, तेन / "तमरयमलबहलपमलधामणप्पभाकरेण" तमोऽन्धकार, रजो रेणुमलः प्रतीतः, एषां बहुलं धनं, यत् पटलं वृन्दं तस्य धाडनी नाशनी या प्रभा कान्तिस्तत्करणशीलं यत्तत्तथा, तेन / अथवा-रजोमलतमोबहुलपटलस्य वीडने प्रभाकरइव यत्तत्तथा। “उउसुहसियच्छायसमणुबद्धेणं” ऋतौ 2 कालविशेषे, सुखा सुखहेतुः ऋतुसुखा, शिवा निरुपद्रवा, छाया आतपवारणलक्षणा, तया समनुबद्धमनवच्छिन्नं यत्तत्तथा, तेन / "वेरुलियदंडसञ्जिएणं ति" वैडूर्यमयदण्डेसज्जितं वितानितंयत्तत्तथा, तेना "वइरामयवस्थिनिउणजोइयअट्ठसहस्सवरकंचणसलागनिम्मिएणं" वज्रमय्यां वस्तौ शलाकानिवेशनस्थाने, निपुणेन शिल्पिना, योजिताः संबन्धिताः,(अट्ठसहस्स त्ति) अष्टोत्तरसहस्रसंख्याः या वरकाञ्चनशलाकाः, ताभिर्निमितं वत्तत्तथा, तेन / “सुनिम्मलरययसुच्छएणं ति" सुनिर्मलोरजः तस्य संबन्धी सुच्छदः शोभनप्रच्छादनपटोयत्रतत्तथा, तेन /

Page Navigation
1 ... 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388