Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छाया 1355 - अभिधानराजेन्द्रः - भाग 3 छायागइ उत्कोचे, पङ्क्तौ, कात्यायन्याम, वाच०। दीप्तौ, औ०। प्रज्ञा० / स०। रा०। प्रभायाम, जं०२ वक्ष० / नि० चू० / स०1 शोभायाम्, औ० / शरीरशोभायाम, “छाउज्जोइयंगमंगा"। जं०३ वक्ष०। छायया शरीरप्रभया उद्द्योतितमङ्गमङ्गम् अङ्गप्रत्यङ्ग येषां ते तथा / जी०३ प्रति०। शरीरप्रभायाम्, तं० / प्रतिबिम्बे, उत्त०२ अ० / स्था० / समुदायशोभायाम, जी०३ प्रति० आतपविरुद्धे पुद्गलपरिणामे, सूत्र०१ श्रु०१ अ०१ उ० / उत्त० / छाया वृक्षादीनाम् / स्था०२ ठा०४ उ० / ज्ञा०। औ०। आदित्यकरावरणजनितायामदीप्तौ, ज्ञा०१ श्रु०२ अ०। छायामानम् - ता अवड्डपोरिसीणं छाया दिवसस्स किंगए वा, सेसे वा? ता तिभागे गए वा, सेसे वा। ता पोरिसीणं छायाए दिवसस्स किं गए, सेसे वा? ता चउभागगए वा, सेसे वा। ता वियड्डपोरिसीणं सूरिए पोरिसीणं छाया दिवसस्स किं गए वा, सेसे वा ? ता पंचभागगए वा, सेसे वा। एवं अद्धपोरिसीणं छाया-पुच्छा ? दिवसस्स भागं छोहुँ 2 दिवसस्स वागरणं० जाव / जा अद्धअउणसद्विपोरिसीयाछाया दिवसस्स किं गए वा, सेसे वा? ता एकुणवीससयभागे गए वा, सेसे वा। ता अउणसट्ठिपोरिसाणं छाया दिवसस्स किं गए वा, सेसे वा? ता बीससयभागगए वा, सेसे वा। सातिरेगअउणसट्ठिपोरिसीणं छाया दिवसस्स किं गए वा, सेसे वा? ता नत्थि किं वि गए वा, सेसे वा। "ता अवड्डे" इत्यादि। अपगतमर्द्ध यस्याः सा अपार्द्धा, सा चासौ पौरुषी च अपार्द्धपौरुषी, छाया, पुरुषस्योपलक्षणत्वात् सर्वस्यापि प्रकाशस्य वस्तुनोऽर्द्धप्रमाणा छाया / एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यम्, दिवसस्य किंगते कतितमे भागे गते, शेषे वेति कतितमे भागे शेषे भवति ? भगवानाह-"ता" इत्यादि। ता इति पूर्ववत्, दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे वा शेषे। "ता" इत्यादि, पौरुषी पुरुषप्रमाणा, प्रकाशस्य वस्तुनः प्रमाणा इत्यर्थः / छाया किंगते कतितमे भागे, शेषे वा भवति? भगवानाह-दिवसस्य चतुर्भाग गते, शेषे वा / इयं च दिवसस्य चतुर्भाग गते, चतुर्भागे शेषे वा प्रकाशस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरमण्डलमधिकृत्योक्ता / तथा च नन्द्यध्ययनचूर्णिग्रन्थः-"पुरिस त्ति संकु पुरिससरीरं वा, ततो पुरिसे निप्फण्णा पोरिसी, एवं सव्वस्स वत्थुणो यदा स्वप्रमाणा छाया भवति तदा पोरिसी हवइ, एयं पोरिसियमाणं उत्तरायणस्स अंते, दविखणायनस्स आइए एकं दिणं भवइ, अतो परं अट्ठ एगसट्ठिभागा अंगुलस्स दक्खिणायणे वर्ल्ड ति, उत्तरायणे हस्सं ति, एवं मंडले मंडले अण्णपोरिसी" इति। तत इदं सकलमपि पौरुषीविभागे प्रमाणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयम् / तथा-ता इति पूर्ववत्, व्यर्द्धपौरुषी सार्द्धपुरुषप्रमाणा छाया दिवसस्य किं भागे कतितमे भागे गते भवति, किं शेषे वा कतितमे भागे शेषे ? भगवानाह-"ता" इति पूर्ववत्, दिवसस्य पञ्चमे भागे गते वा भवति, शेषे वा पञ्चमे भागे। 'एवं' इत्यादि। एवमुक्तेन प्रकारेणमर्द्धपौरुषीन् अर्द्धपुरुषप्रमाणां छायां क्षिप्त्वा 2, पृच्छा पृच्छासूत्रं द्रष्टव्यम् (दिवसस्स | भागं ति) पूर्वपूर्वसूत्रापेक्षया एकैकदिवसमधिकं दिवसस्य भागं क्षिप्तवा 2 व्याकरणमुत्तरसूत्रं ज्ञातव्यम् / तचैवम्-"विपोरिसीणं छाया किं गए वा, सेसे वा? ता छब्भागगए वा, सेसे वा। ता अड्डाइज्जपोरिसीणं छाया किं गए वा, सेसे वा ? ता सत्तभागगए वा, सेसे वा" इत्यादि। एतच्च तावत्, यावत् “ताउ गुणसहि" इत्यादि सुगमम्। सातिरेकैकोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये, पर्यन्तसमये वा ? तत आह-"ता नऽस्थि किवि गते वा, सेसे वा" इति। संप्रति छायाभेदान्व्याचष्टे - तत्थ खलु इमा पणविसतिविहा छाया पण्णत्ता / तं जहाखंभच्छाया रज्जुच्छाया पागारच्छाया पोसायच्छाया उवगच्छाया उच्चत्तच्छाया अणुलोमच्छाया पडिलोमच्छाया आरुभिया उवहिया समावडिहया खीलच्छाया पंखच्छाया पुरओ उदग्गा पडि उदग्गा पुरिसकं ठभागोवगया पच्छिमकं ठभागोवगया छायाणुवादिणी छाया छायच्छाया विकंपेवेहा कडसमच्छाया गोलच्छाया। "तत्थ" इत्यादि / तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशतिविधा छाया प्रज्ञप्ता / तद्यथा-"खंभच्छाया" इत्यादि प्रायः सुगमम्। विशेषव्याख्यानं चामीषां पदानां शास्त्रान्तरात्, यथासंप्रदायाद्वा वाच्यम्। 'गोलच्छाया' इत्युक्तम्, ततस्तामेव गोलच्छायां भेदत आह - तत्थ खलु इमा अट्ठविहा गोलच्छाया पण्णत्ता / तं जहागोलच्छाया अवडगोलच्छाया गोलगोलच्छाया अवडगोलगोलच्छाया गोलावलिच्छाया अवड्डगोलावलिच्छाया गोलपुंजच्छाया अवडगोलपुंजच्छाया। "तत्थ" इत्यादि / तत्र तासां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलच्छाया अष्टविधा प्रज्ञप्ता / तद्यथा-गोलच्छाया गोलमात्रस्य या छाया, अपार्द्धस्य अपार्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलैर्बहुभिर्मिलित्वा यो निष्पादित एको गोलस्तस्य छाया गोलगोलच्छाया। अपार्द्धमात्रस्य गोलगोलस्य छाया अपार्द्धगोलगोलच्छाया। गोलानामावलिगोलावलिस्तस्य छाया गोलावलिच्छाया, अपार्हो या गोलावलिच्छाया अपार्द्धगोलावलिच्छाया, गोलानां पुजो, गोलोत्कर इत्यर्थः, तस्य छाया गोलपुञ्जच्छाया, अपार्द्धस्य गोलपुञ्जस्य छाया अपार्द्धगोलपुञ्जच्छाया। चं०प्र०६पाहु०। (छायाया द्रव्यत्वसिद्धिः 'तम' शब्दे वक्ष्यते) छायागाइ स्त्री०(छायागति) छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितं गतो, प्रज्ञा०1 से किं तं छायागती? छायागती जेणं हयच्छायं वा गयच्छायं वानरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा रहच्छायं वा छत्तच्छायं वा उवसंपजित्ता णं गच्छति, सेत्तं छायागति।। छायागतिः छायामनुसृत्य तदुपष्टम्भेनवा समाश्रयितुंगतिः छायागतिः / प्रज्ञा०१६ पद।

Page Navigation
1 ... 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388