Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चोलपट्ट 1338 - अभिधानराजेन्द्रः - भाग 3 चोब्वार स्थविराणां श्लक्ष्णः करणीयः, तदिन्द्रियस्य स्पर्शन चोलपट्टस्योपघाता- 1 भावात्, यूनां तु स्थूल इति / प्रव०६१ द्वार। किमर्थमसौ चोलपट्टकः क्रियत इत्यत आह - वेउव्व वाउडे, वा, हियए अइखद्ध पज्जणे चेव / तेसिं अणुग्गहत्था, लिंगुदयट्ठाय पट्टो उ॥४५।। यस्य साधोः प्रजननं वैक्रियं भवति, विकृतमित्यर्थः / यथा दाक्षिणात्यपुरुषाणां चोयार्थ विध्यते प्रजननं, तच विकृतं भवति। ततश्च तत्प्रसादनार्थमनुग्रहाय चोलपट्टकः क्रियते, तथा अप्रावृते कश्चित् वातिको भवति, वातेन तत्प्रजनम् उच्छन्नं भवति, ततश्च तदनुग्रहाय अनुज्ञातः / तथाह्रीको लज्जालुः कश्चिद्भवति तदर्थं ते (खद्धं ति) बृहत्प्रमाणं स्वभावेनैव कस्यचित्प्रयोजनं भवति। ततश्चैतेषामनुग्रहार्थ, तथा लिङ्गोदयार्थे कदाचित् स्त्रियं दृष्ट्वा लिङ्ग स्योदयो भवति / अथवातस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयश्च लिङ्गस्य भवति, तं प्रति अभिलाषो भवतीत्यर्थः / ततश्चैतेषामनुग्रहार्थ चोलपट्टकग्रहणमुपदिष्टम् // 45 / / ओघ०। ध०। प्रश्न। आचा०। पं०व०। चोलुक्क पुं० (चौलुक्य) स्वनामख्याते वंशे, यत्र श्रीकुमारपालादयो जज्ञिरे / ती०५ कल्प। चोलो (देशी) वामने, दे० ना०३ वर्ग। चोलोवणग न० (चौलोपनक) चूडाधारणे, भ०११श०११ उ०। चोल्लग पुं० (चोल्लक) परिपाटीभोजने, उत्त०३ अ०। आ० म० / मानुषत्वदुर्लभत्वे चोल्लकदृष्टान्तः। तत्र चोल्लको ब्रह्मदत्तचक्रवर्तिमित्रकल्याणभोजनम्। आ० म० द्वि०। चोवत्तरि स्त्री०(चतुःसप्तति) चतुरधिकसप्ततिसंख्यायाम, स०७२ सम०। चोव्वार पुं०(चतुर्वार) “न वा मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुवरिसुकुमारकुतूहलोदूखलोलुखले"||८||१||१७१।। इति वा ओत्। चतुरावृत्ते, प्रा०१ पाद। इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञ कल्पप्रभुश्रीमद्भट्टारक-जैन श्वेताम्बराचार्यश्रीश्री 1008 श्री विजयराजेन्द्रसूरिविरचिते अमिधानराजेन्द्र चकारादिशब्दसङ्कलनं समाप्तम्।

Page Navigation
1 ... 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388