Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1369
________________ छज्जीवणिकाय 1345 - अभिधानराजेन्द्रः - भाग 3 छज्जीवणिकायवह सर्वासा विभक्तीनां प्रायो दर्शनम्" इति वचनात् हेतौ प्रथमा / अध्ययनत्वात् अध्यात्मानयनात्चेतसो विशुद्ध्यापादनादित्यर्थः। एतदेव कुत इत्याह-धर्मप्रज्ञः प्रज्ञपनं प्रज्ञप्तिः, धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः, ततो धर्मप्रज्ञप्तेः कारणाचेतसो विशुद्धयापादनाच श्रेय आत्मनोऽध्येतुमिति / अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपपादेयतयाऽनुवादमात्रमेतदिति। शिष्यः पृच्छति - कयरा खलु सा छज्जीवणिया णामऽज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया, सुअक्खाया, सुपन्नत्ता सेयं मे अहिजिउं धम्मपन्नत्ती॥ सूत्रमुक्तार्थमेवाने नैतद्दर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति! आचार्य आहइमा खलु सा छज्जीवणिया नामऽज्झयणं समजेणं भगवया महावीरेणं कासवेणं पवेइया, सुअक्खाया, सुपन्नता, सेयं मे अहिजिउं अज्झयणधम्मपण्णत्ती। सूत्रमुक्तार्थमेवानेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति। तं जहा-पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया / दश०४ अ० / आचा०। (पृथिव्यादीनां व्याख्या स्वस्वस्थाने। षड्जीववधकारिणामभावादिदशविषयादितन्निवृत्तिकारिणां संपूर्णमुनिभावप्रदर्शनमन्यत्र वक्ष्यते) "दोहिं जीवनिकायेहिं" आव०४ अ०। साम्प्रतं चारित्रधर्मस्तत्रोक्तसंबन्धमेवेदं सूत्रम् - इच्चेसिं छहं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवऽन्ने हिं दंडं समारंभाविज्जा, दंडं समारभंते वि अन्ने न समणुजाणामि जावजीवाए।।१२।। सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना एतेषां षण्णां जीवनिकायानामिति “सुपां सुपो भवन्ति” इति वचनात् सप्तम्यर्थे षष्ठी / एतेषु षट्सु जीवनिकायेषु अनन्तरोदितस्वरूपेषु नैव स्वयमात्मना दण्ड संघट्टनपरितापनादिलक्षणं समारभेत प्रवर्तयेत्, तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तलक्षणं समारम्भयेत, कारयेदित्यर्थः / दण्डं समारभमाणानप्यन्न प्राणिनोन समनुजानीयात्, नानुमोदयेदिति विधायिकं भगवद्वचनम् यतश्चैवमतो यावज्जीवमित्यादि, यावद्व्युत्सृजामीत्यादि इत्येवमिदं सम्यक् प्रतिपद्येत इत्यैदंपर्यम्, पदार्थस्तु जीवनं जीवः / यावद्जीवो यावजीवम्-आप्राणोपरमादित्यर्थः। किमित्याह - तिविहं तिविहेणं मणेणं वायाएकाएणं न करेमि, न कारवेमि, करतं वि अन्ने न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि / / 13|| त्रिविधं त्रिविधेनेति तिस्रो विधा विधानानि कृतादिरूपा अस्येति / त्रिविधः, दण्ड इति गम्यते। तं त्रिविधेन करणेन, एतदेवोपन्यस्यति- / मनसा, वाचा, कायेन, एतेषां स्वरूप प्रसिद्धमेव। अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह-न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्यमप्यन्यं न समुनजानामीति, तस्य भदन्त ! प्रतिक्रमामीति / तस्येत्यधिकृतो दण्डः संबध्यते, संबन्धलक्षणा अवयवलक्षणा वा षष्ठी / योऽसौ त्रिकालविषयो दण्डः, तस्य संबन्धिनमतीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्। प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति / भदन्तेति गुरोरामन्त्रणम् / भदन्त ! भवान्त ! भयान्त ! इति साधारणा श्रुतिः। एतच्च गुरुसाक्षिक्येव प्रेतप्रतिपत्तिः साध्वीति ज्ञापनार्थम्, प्रतिक्रमामीति भूतदण्डाद् निवर्तेऽहमित्युक्तं भवति। तस्माच निवृत्तिर्यत्तदनुमतोर्विरमणमिति। तथा निन्दामि गर्हामीत्यत्रात्मसाक्षिकी निन्दा, परसाक्षिकी गर्दा / जुगुप्सोच्यते-आत्मानमतीतदण्डकारिणमश्लाध्यं व्युत्सृजामीति विविधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो भृशार्थः, सृजामीति त्यजामि। ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि इति / आह-यद्येवमतीतदण्डअतिक्रमणमात्रस्यैदंपर्यम्, न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति / नैतदेवम् / न करोमि इत्यादिना तदुभय सिद्धेरिति / (दश०) महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह - इच्चेअंछज्जीवणियं,सम्माहिट्ठी सया जए। दुल्लह लहित्तु सामन्नं, कम्मुणा न विराहिज्जासि / इति बेमि // 26 // इत्येतां षड्जीवनिकायिकाम् अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदिति योगः। सम्यग्दृष्टिीवः तत्त्वश्रद्धावान् सदा यतः सर्वकालं प्रयत्नपरः सन्, किमित्याह-दुर्लभं लब्ध्वा श्रामण्यं दुष्प्रापं प्राप्य श्रमणभावं षड्जीवनिकायसंरक्षणैकरूपं, कर्मणा मनोवाक्काय क्रियया प्रमादेन न विराधयेत् न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथञ्चिद् भवति, तथाऽप्यसावविराधनैवेत्यर्थः एतेन "जले जीवाः स्थले जीवाः, आकाशे जीवामालिनि। जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? / / 1 / / " इत्येतत्प्रत्युक्तम्, तथा सूक्ष्माणां विराधनाभावाच / ब्रवीमीति पूर्ववत्। अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाऽऽह नियुक्तिकारःजीवाजीवाभिगमो, आयारो चेव धम्मपन्नत्ती। तत्तो चरित्तधम्मो, चरणे धम्मे य एगट्ठा // 267 / / जीवाजीवाभिगमः, सम्यग् जीवाजीवाभिगमहेतुत्वात्, एवमाचारश्चैवाचारोपदेशत्वात, धर्मप्रज्ञप्तिर्यथावस्थितधर्मप्रज्ञापनात्, ततश्चारित्रधर्मस्तन्निमित्तत्वात्, चरणं चरणविषयत्वात, धर्मश्च श्रुतधर्मस्तत्सारभूतत्वात् एकार्थिका एते शब्दा इति गाथार्थः। अन्ये त्विदं गाथासूत्रमनन्तरोदितं सूत्रस्याधो व्याख्यानयन्ति, तत्राप्यविरुद्धमेव। उक्तोऽनुगमः / साम्प्रतं नयास्ते च पूर्ववदेव / दश०४ अ०। छज्जीवणिकायवह पुं०(षड्जीवनिकायवध ) षड्जीवनिकायानां पृथिवीकायाप्कायतेजस्कायवायुकायवनस्पतिकायत्रसकायलक्षषसिधप्राणिगणानां वधे विनाशे, पा०।

Loading...

Page Navigation
1 ... 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388