Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयरुक्ख १२६५-अभिधानराजेन्द्रः-भाग 3 चेइयरुक्ख असुरकुमारादीनां क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतवादिद्वारेषु श्रूयन्ते। व्यन्तराणामष्टौएएसिणं अट्ठण्हं बाणमंतराणं देवाणं अट्ठ चेइयरुक्खा पण्णत्ता। तं जहा "कालंबो उ पिसायाणं, बडो जक्खाण चेइयं / तुलसी भूयाण भवे, रक्खसाणं च कंडओ॥१॥ असोगो किग्णरायंच, किंपुरिसायं च चंपओ। नागरुक्खो लुयंगाणं, गंधव्याणं तु तिंदुओ॥२॥" तेषा चैत्यवृक्षाः मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरि च्छत्रध्वजादिभिरलड्कृताः सुधर्मादिसभानामग्रतो ये श्रूयन्ते ते एत इति संभाव्यन्ते / ये तु-"चिंधाइ कलबझए: तुलस वडे तह य होइ खटुंगे। आसोएँ चंपए वा, नागे तह तुंदुए चेव" / / 1 // ति। ते चिहभूता एतेभ्योऽन्य एवेति "काल्यो उ'' इत्यादि श्लोकद्वयं कण्ठ्यम्। स्था० 8 ठा०। वाणमन्तराणां चैत्यवृक्षमानं, वर्णकश्चैवम्वाणमंतराणं देवाणं चेइयरुक्खा अट्ठ जोयणाई उड्ढे उग्रत्तेणं पण्णत्ता / स०१ सम० जी०। तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेतियरुक्खा पण्णत्ता / ते णं चेतियरुक्खा अद्धजोयणाई उद्धं उच्चतेणं अट्ठजोयणं उव्वेहेणं दो जोयणाई खंधा अद्धजोयणं विक्खं भेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अद्धजोयणाई आयामविक्खं मेणं सातिरेगाई अद्धजोयणाई सव्वग्गेणं पण्णत्ताई। तेसि णं चेतियरुक्खाणं अयमेतारूवे वण्णावासे पण्णत्ते / तं जहा- वइरामयमूलरयसुपइट्ठियविडिमा रिट्ठामयविपुलकंदा वेरुलियरुचिलक्खंधा सुजायवरजायरूवपढमगविसालसालाणाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरग्गधरा विचित्तमणिरयणसुरभिकुसुमफलभरियणमियसाला सच्छाया सप्पभा ससिरिया सउज्जोया अमयरससमरसफला अहियणयणमणणिव्युतिकरा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा / ते णं चेइयरुक्खा अन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तवन्नदहिवन्नलोद्धयधवचंदण-नीवकुडयकयंवफणसतालतमालपियालपियंगुपारावयरायरुक्खनंदिरुक्खेहिं सव्वओ समंता संपरिक्खिता। ते णं तिलय० जाव नंदिरुक्खा मूलवंतो कंदवंतो० जाव सुरम्मा। ते णं तिलया० जाव नंदिरुक्खा अण्णेहिं बहूहिं पउमलयाहिं० जाव सामलयाहिं सव्वओ समंता संपरिक्खित्ता / ताओ णं पउमलताओ० जाव सामलयाओ निचं कुसुमियाओ० जाव | पडिरूवाओ। तेसिणं चेतियरूक्खाणं उप्पिं अट्ठट्ठमंगला बहवे | कण्हचासरज्झया० जाव पडिरूवा / तेसि णं चेतियरूक्खाणं पुरओ पत्तेयं 2 मणिपेढियाओ पण्णत्ताओ। ताओ मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ० जाव पडिरूवाओ॥ तेषां च चैत्यवृक्षाणामयमेतावद्रूपो वर्णावासः प्रज्ञप्तः / तद्यथा"वइरामयेत्यादि / वज्राणि वज्रमयाणि मूलानि पेषां ते यजमूलाः, तथा रजता रजतमयी सुप्रतिष्ठिता विडिमा बहुमध्यदेशभागे उध्व विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमाः, ततः पूर्वपदेन कर्मधारयःसमासः। "रिट्ठामय'' इत्यादि। रिष्टमयः कन्दः, तथा वैडूर्यो वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः समासः / 'सुजात'' इत्यादि / सुजातं मूलद्रव्यशुद्धं वरं प्रधानं यद् जातरूपं तदात्मका प्रथमका मूलभूता विशाला शाला शाखा यवा ते सुजातवरजातरूपप्रथमक विशालशाला: 1 "नाणामणिरयण" इत्यादि / नानामणिरत्नानां नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा, तथा वैडूर्याणि वैडूर्यमयाणि पत्राणि येषां ते तथा, तपनीयानि तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदव्यमीलनेन कर्मधारयः / जाम्बूनदा जाम्बूनदनामकसुवर्णविशेषमया रक्ता रक्तवर्णा मृदवो मनोज्ञाः सुकुमाराः सुकुमारस्पर्शा ये प्रवाला ईषदुन्मीलितपत्रभावाः, पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपाः वराड्कुराः प्रथममुद्भिद्यमाना अड्कुराः, तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाड्कुरधराः / कृचित्पाठः-"जंबूणयरनमउय' इत्यादि / तत्र जाम्बूनदानि रत्नानि, मृदूनि अकठिनानि, सुकुमाराणि अकर्क शस्पर्शानि, कोमलानि मनोज्ञानि, प्रबालपल्लवाड कुरा यथोदितस्वरूपाः अग्रशिखराणि च येषां ते तथा। "विचित्तमणिरयण' इत्यादि / विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता नम्राः शालाः शाखा येषां ते तथा, सती शोभना छाया येषां ते सच्छायाः, तथा सती शोभना प्रभा कान्तिर्येषां ते सत्प्रभाः, अत एव सश्रीकाः, सह उद्द्योतेन वर्तते मणिरत्नानामुद्द्योतभावेन सोद्योताः, अमृतरससमरसानि फलानि येषां ते अमृतरससमफलाः / अधिकमतिशयेन नयनमनोनिर्वृतिकराः, 'पासाईया'' इत्यादि विशेषणचतुष्टयं प्राग्वत् / "ते णं चेइयरुक्खा'' इत्यादि / तचैत्यवृक्षा अन्येर्बहुभिस्तिलकलवच्छत्रोपगशिरीष - सप्तपर्णदधिपर्णलोधकवचन्दननीपकुटजकदम्बपनसतालतमालप्रिया-लप्रियमुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः। "तेणं तिलगा'' इत्यादि। ते तिलका यावन्नन्दिवृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत् तावद् वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनाः सुरम्या इति। "ते णं तिलगा'' इत्यादि। ते तिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिः नागलताभिरशोकलताभिश्चम्पकलताभिश्चूतलताभिर्वनलताभिवसिन्तिकालताभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलताभिः सर्वतः समन्तात् सम्परिक्षिप्ताः / "ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ'' इत्यादि लतावर्णनं तावद् वक्तव्यं यावत् "पडिरुवाओ" इति / व्याख्या चास्य पूर्ववत्। "तेसि णं'' इत्यादि। तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया सावत् प्रतिरू

Page Navigation
1 ... 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388