Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1336
________________ चेइयवंदण 1312 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण वन्दनीया इत्याशङ्कायां चतुर्थमवग्रहदारं गाथोत्तरार्द्धनाऽऽहनवकर जहन्नु सट्ठिक-र जिलु मज्झुग्गहो सेसो ||16|| मूलबिम्बात् नवहस्तान् जघन्योऽवग्रहः जघन्यत उच्छासनिःइवासादिजनिताऽऽशातनापरिहाराय नवहस्तबहिःस्थितैः देववन्दना कार्या। षष्टिहस्तान्ज्येष्ट उतकृष्टोऽवग्रहः, तत्परत उपयोगसंभवाद् मध्यो मध्यमः, शेषो नवकरेभ्य उर्द्ध षष्टेरवचि, अवग्रहो मूलबिम्बवन्दनास्थानाभ्यन्तरालभूभाग इति / अन्यैः पुनादशधाऽयमुक्तः / तथा च पञ्चस्थान फेऽभिहितम्"उकोससहिपन्ना, चत्तार तिसा दसद्ध पणदसगं। दस नव ति दु एगऽद्धं, जिणुगगह वारसविभेय" / / 1 / / एतावता चार्द्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाक गृहचैत्ये चैत्य गृहे वा यथा जिनबिम्बस्याऽऽशातना न भवति तथा यथासमयमवग्रहबहिःस्थितैरमिततेजः खचरेश्रवद्देववन्दना कार्येत्युक्तं भवति। सङ्घा०२ प्रस्तान (अमिततेजःखेचरेश्वरकथा सङ्घाचारादवसेया) निगदितं त्रिधाऽवग्रह इति चतुर्थ द्वारं, तगणनेन च प्रदर्शितः चैत्यवन्दनाकरणविधिः / सङ्का०२ प्रस्ता०1 (14) त्रिविधा वन्दना - संप्रति कतिप्रकारा चैत्यवन्दनेत्याशङ्कायां तत्स्वरूपाभिधि त्सया "तिहाउ वंदणय त्ति" पञ्चमं द्वारं विवृण्वन्नाहनवकारेण जहन्ना, चिइवंदण मज्झ दंडथुइजुयला। पणदंडयुइचउक्कग-थयपणिहाणेहिँ उक्कोसा।। नमस्कारेण अञ्जलिबन्धशिरोनमनादिलक्षणप्रमाणमात्रेण / यद्वा "नमो अरिहंताणं" इत्यादिना / अथवा “पुरवरकवाडवच्छे, फलिहभुए दुंदुहिथणियघोसे। सिरिवच्छंकियवच्छे, वंदामि जिणे चउव्वीसं"।।१।। इत्यादिनैकेन श्लोकादिरूपेण नमस्कारेणेति, जातिनिर्देशाद्वा बहुभिरपि नमस्कारैः / अभिधास्यति च-"सुमहत्थनमुक्कारा इगदुग” इत्यादि / यद्धा-नमस्कारेण प्रणतिपातापरनामतया प्रणिपातदण्डकेनैकेनेति यावत्, जघन्या स्वल्पा, पाठक्रिययोरल्पत्वात्, चैत्यवन्दना, भवति इति गम्यम्। एतावता“एगनमुक्कारेणं, चिइवंदणया जहन्नयजहन्ना। बहुहि नमुक्कारेहि य, नेया उ जहन्नमज्झमिआ।।१।। सचिअसक्कथयंता, जहन्नउक्कोसिया मुणेयव्या"।। इति त्रिविधोक्ता जघन्यवन्दना व्याख्याता / ईर्यापथिकीनमस्कारोऽपि प्रणिधानान्तेनापि शक्रस्तदेनजघन्यचैत्यवन्दनेति तात्पर्यार्थः। सङ्घा०२ प्रस्ता०। पञ्चा०|ध०! (15) स्तुतिविचारः - एतावताऽप्यवस्थात्रयभावनासिद्धतदर्थमेव चात्र शक्रस्तवान्ते"जे य अइया" इत्यादिगाथापाठाद्। उक्तं च लघुभाष्ये "जे यऽइआ गाहाए, वीयहिगारेण दव्वअरिहंते। पणमामि भावसारं, छउमत्थे तिसु वि कालेसु / / 1 / / " एषाऽपि यदैकदण्डकस्तुत्यादिसहिता स्यात्तदा मध्यमा भवतीयत आह-"मज्झदंडपुइजुयला" मध्या मध्यमाश्च जघन्योत्कृष्टाः, पाठक्रिययोस्तथाविधत्वात। दण्डकश्च-"अरिहंतचेइयाणं" इत्यादि रेकस्तुतिश्च श्लोकादिरूपा प्रतीता चूलिकात्मिका एका तदन्त एव या दीयते। तेएव युगल युग्मं यस्यां सा दण्डस्तुतियुगला, चैत्यवन्दनेत्यत्राऽपि योज्यं घण्टालालान्यायेन / एतच्च-“चेइअदंमगथुइएगसंगया सव्वमज्झिमिया" / तथा “नमुक्कराई चियदंडगथुइमज्झिमजहन्ना" इत्याधुक्तितो व्याख्यातम्, अन्यथा-"सक्कत्थवाइयं चेइयवंदणं" इत्यागमोक्तप्रामाण्यात् शक्र स्तवोऽप्यत्रादौ भण्यते / तथा च बृहद्भाष्येऽपि-"मंगलसक्कथयचिइ-दंडगथुइहिँ मज्झमज्झिमिया"। अथवा दण्डश्च चैत्यस्तवरूप एकं स्तुतियुगलं च वक्ष्यमाणनीत्या चूलिकेतरस्तुतिद्वयरूपं यत्र सा दण्डस्तुतियुगला / चैत्यदण्डकः कायोत्सर्गीनन्तरदीयमानश्लोकादेकचूलिका स्तुतिः"लोगस्सुजोयगरें" इत्यादि। सङ्घा०२ प्रस्ता०। (16) अथ चैत्यवन्दनविधिमाहनिस्स (कम) मनिस्सकमे वा, वि चेइए सव्वहिं थुई तिन्नि। वेलं व चेइयाणि व, णाउं इक्किक्कया या वि।। निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते च तद्विपरीते, चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्येति। बृ०१ उ०। “णवकारेण जहण्णा, दंडगथुइजुअलमज्झिमा णेया। संपुण्णा उक्कोसा, विहिणा खलु वंदणा तिविहा / / 2 / / " (इति वन्दनपञ्चाशकद्वितीयगाथायाम्) संपूर्ण परिपूर्णा, सा च प्रसिद्धदण्डकैः पञ्चभिः स्तुतित्रयेण प्रणिधानपाठेन च भवति, चतुर्थस्तुतिः किलार्वाचीगेति। किमित्याह-उत्कृष्टत इत्युत्कर्षा उत्कृष्टा / इदं च व्याख्यानभेके - "तिन्नि वा कड्डुई जाव, थुईओ तिसिलोगिआ। ताव तत्थ अणुण्णायं, करणेण परेण वि" // 1 // इत्येतां कल्पभाष्यगाथां “पणिहाणं मुत्तसुत्तीए" इति वचनमाश्रित्य कुर्वन्ति / / पञ्चा०३ विव० / इति व्याख्यानात् ताश्चतस्त्रोऽपि धुवाधुवस्तुतिभेदेन द्वे भवतः, तेच युगलशब्देनोच्येते इति स्तुतियुगलं स्तुतिचतुष्टयमुक्तम् / तथा तुलादण्डवद् मध्यग्रहणादाद्यन्तयोरपि ग्रहणमिति न्यायादिह यथाऽऽदौ शक्रस्तवचैत्यदण्डककायोत्सर्गादि नियत भण्यते तथाऽन्तेऽपि चतुर्थकायोत्सर्गस्तुत्यन्ते शक्रस्तवादि ध्रुवं भणनीयं, करणविधौ तथायातत्वात्। उक्तं च पञ्चवस्तुके"सेहमिह वामपासे, ठवित्तु तो चेइए पवंदति। साहूहि संम गुरवोः थुइवुड्डी अप्पणा चेव" / / 1 / / आचार्या एव छन्दःपाठाभ्यां वर्द्धमानाः तुतीर्ददति। "वंदिय पुण द्विआणं, गुरुणा ता वंदणं समंदाउं। सेहो भणई इच्छाकारेणं संदिसावेह" // 1 // वन्दित्वा द्वितीयप्रणिपातदण्डकावसाने। तथा ललितविस्तराय चतुर्थकायोत्सर्गसूत्रस्तुतीव्याख्यायोक्तं, व्याख्यातं सिद्धेभ्य इत्यादिसूत्रं, पुनः संवेगभावितमतयो विधिनोपविश्य पूर्ववत्प्रणिपातदण्डकं पठित्वा स्तवपाठं पूर्ववत् / चतुर्थकायोत्सर्गसूत्रस्तुतिस्तुसूत्राधुक्तत्वादवश्यमेव भणनीया / तथा च ललितविस्तरायांमुतम् - के चित्तु अन्या अपि पठन्ति, न च तत्र नियम इति न तत्र व्याख्यानं क्रियते / असमर्थः-अन्या 2 अपीति उक्तानुक्तादिसंग्रहरूपत्वेनात्र पञ्चमदण्डके तत्तत्पाठेऽपि सूत्रसन्धानादिदोषानापत्तेः /

Loading...

Page Navigation
1 ... 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388