Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1324 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण न्यायात् उज्जयन्तपर्वतालङ्करणस्य श्रीनेमिनाथस्य स्तुतिर्विधीयते, चशब्दो विशेषकः, तेनायं जिनस्तुतित्वात् दर्शनविशोधकात्कर्मक्षयादिकारकत्वात् संवेगादिकारणत्वात् अशठसमाचरितत्वात् बहुबहुश्रुतानिवारितत्वात् जीतष्यवहारानुपातित्वात् भाष्यकारादिभिः व्याख्यातत्वात् आवश्यकचूर्णिकृतोऽप्यनुमतत्वात् अनिषिद्धत्वात्पारम्पर्यागतस्यार्थस्य स्वमत्या निषेद्धुमशक्यत्वात् निषेधे निहवमार्गानुपातित्वात् आज्ञाप्रकारत्वाश्च्च इत्यतो युक्तमेवायमधिकारः / एवमग्रेतनोऽपि / तथा एकादशे चत्वारि "अट्ठादस" इतिगाथास्वरूपे, "अट्ठावय" ति सूचनात् अष्टापदपर्वतोपरि भरतनिर्मापितवर्तमानचतुर्विंशतिजिनस्तुतिः क्रियते, निगमनार्थत्वादस्येति। यद्वा-"अट्ठावय त्ति" उपलक्षणं, तेनान्यत्रगा अपि जिना अनया गाथया वन्द्यन्ते / तत्र यथेयं वृद्धास्याता तथा भव्याना भाववृद्धे किञ्चिद्दीत - "चत्तारि अट्ट दस दो,यवदिया जिणवरा च उव्वीसं। परमट्ठतिट्टियट्ठा, सिद्धा सिद्धिं मम दिसंतु"॥१॥ दाहिणदुआरे चत्तारि, पच्छिमे अट्ट, उत्तरे दस, पुव्वओदोय, एवं अट्ठावए चउवीसं जिणवरा वंदिजंति / अन्ने भणति-उवरिममेहलाए चत्तारि, मज्झिमाए अट्ट, हिडिमाए दस दो य, मिलियाओ चउवीसं जिणपडिमाओ अट्ठावएवंदिजंति, चत्ता अरओजेहिं ते चत्तारओ पयविसेसेणं अट्ठ 8 दस 10 दो य 2 एवं वीसं 20 / चतुःशब्दौ विशेषज्ञापकाद्यर्थेषु यथायोगं योज्यौ / “एए सम्मेयपव्वए वंदिया परमटेण उवयारेण निट्टियट्ठा" समाप्तप्रयोजनाः, सिद्धाः शिवं गताः, 'षिधू' गत्यामिति वचनात् 2 "चत्तारिपयं पुव्वं च अट्ठदससु मिलिया 18 दोयत्ती जाया" स्वर्गपा इन्द्रा इत्यर्थः, "तेहिं बंदिया चउवीसं भइया, लद्धा पंच, ते अट्ठारस मेलिया तेवीसं, एएसिं तुजे वंदिजंति, कहं परा पहाणा मालच्छी समोसरणाझ्या, तत्थ ठिया, समोसरिया इत्यर्थः / निट्ठियट्ठा संपन्नफला केवलनाणसंपत्तीए / “यदागमः “जस्सट्टाए कीरइ नग्गभावे मुण्डभावे अण्हाणए अदंतधवणे” इत्यादि, सिद्धाः शास्तारो वभूवुः, मङ्गलभूताश्च, 'षिधू' शास्त्रमा-गल्ययोरिति वचनात्। “चऊहिं अट्ठगुणिया 32, दोहि य दस 20 मिलिय वावन्ना, नंदिसरजिणा य बंदिजंति, चसद्दा मयंतरे पुण वीसं, अहवा चउरहिया वीसं, एएनंदिसरसोहम्मेसाणिंदमामहिसीरायहा-णीसु संति, मयंतरे पुण चउवीसं, परं अट्ठसहिया 32 / एवं नंदिसरे दीवे 52 / / 20 वा, रायहाणिसु 16 / 32 वा, परमटेण" न वर्णनामत्रेण, "निट्ठिया" निष्ठां प्राप्ता, आस्था आस्थानं, रचनेत्यर्थः / येषां ते लथा, सिद्धा नित्याः, अपर्यवसानस्थितिकत्वात्। “चत्तारि जंबुदीवे अट्ठ धायइसमे दस नवरं दो य रहिया पुक्खरवरद्धे, एवं वीसं जिण संपइ जहन्नओ विहरमाणा वंदिजंति, जम्मं पइ उक्कोसओवा" चतुःशब्दौ प्राग्वत्। “परमट्टनिट्टियहा" भाविनि भूतवदुपचारात् सिद्धाः प्रख्याता भव्यैरुपलब्धगुणसंदोहत्वात् / "चत्ता अरी जेहि ते चत्तारि" कञ्जमाणे कडे" इति वचनात्। “के अरी अट्ठ कम्माणि, के चत्तारि दस ते उ दो य ति दुहिं भेएहि हुंति जहन्ना जम्मपयभरहेरवय-दसगविहरमाणजिणभेएहि"चः पूरणे। (उव्वीसं ति) उर्वीशाः पृथ्वीस्वामिनः, शेषं प्राग्वत् / 6 “अट्ठदसहि गुणिया 80 सा दोहि गुणिया 160, सेसं पुव्वं वा, एवं सव्वविहरमाण जिणवंदिया 7 / अट्ठ, अट्ठहि गुणिया 64 दस, दसहिं 100, तओ चत्तारि दो य दो य, सव्वे मेलिया जायं सप्ततिशतम् 170 ! एए पन्नरस कम्मभूमी उक्कोसओ विहरमाणा वंदिज्जति 8 अट्ठ दस 18 चऊहिं गुणिया 72 एएहिं तिन्नि चउवीसीओ भवंति, ताओ य इह भरहे अभीयाऽणागयवट्टमानचउवीसगा तिगस्स रूवा तित्थयरा वंदिजंति 6 चत्तारि अट्ठमीलिया 12, ते य दस गुणिया 120, एए पंचचडवीसिओ पंचसु भरहेसु वट्टमाणाओ वंदिजंति 10, अट्टदसहि गुणिया 80, ते चेव दस मिलिया 60, सा चउहिं गुणिया 360, एए पन्नरस चउवीसीओ पंचसु भरहेसु कालत्तयसंभवाओ वंदिजति 11, एए चेव तिन्नि पगारा / जहा 72 / 120 / 360 / दोहिं गुणिज्जंति, जाया 144 / 240 / 720 / चउवीसी कि नंति, जाया उ 6 / 10 / 30 / चउवीसीओ ताओ कमसो पुव्वभणियअत्थेण भरहेरवएसुसमग वंदिज्जति १२।अणुत्तरेसु १गेविजेसु 2 कप्पेसु 3 जोइसिएसु य 4, एवं उर्ल्ड चत्तारि भेया, अहो य वंतरेसु अट्टभेएसु अट्ट 8 दसभेएसु भुवणवासीसु दस 10 महियले सासयअसासयभेया दो य 2 / एवं तिहुयणे जिणाययेणेसु चउवीसं जिणवरा वंदिया 13 / जहा पुण जंबुद्दीवे 635, धायइसंडे 1272, पुक्खरवरड्डे 1276, मणुयलोयबहिं 62, तिरियलोए वा सव्वसंखाए 3275, चेइयसयाइ, ताई सयमेव तहा नियनियसंखाए आणिऊणं वंदियव्वाणि" | विस्तरभयाच नोच्यन्ते / “एवं अणेगहा एगारसमे अहिगारेजिणबरा वंदिजंति 11" तथा सुदृष्टिसुराणां सम्यग्दृष्टिदेवतानां स्मरणात् तत्प्रवचनादिविषयवैयावृत्यादिकार्यविधनोपयोगप्रभृतिगुणगणानुचिन्तनोत्कीर्तनादिनोपवृंहणा / यथा धन्याः पुण्यवन्तो लब्धजीवितादिफला भवन्तो, यदेवं सदनुष्ठानोद्यताः, युक्तमेवेद भवादृशां, सुस्थानविनियोगफ-लत्वात्संपदः। उक्तं च - "तं नाणं तं च विन्नाणं, तं कलासु य कोसलं। सा बुद्धी पोरिसं तं च, देवकनेण जं वए" / / 1 / / इत्यादिप्रशंसाद्वारेण तत्कृत्यप्रोत्साहनेत्यर्थः / अथवा-स्मारणासङ्घादिविषये प्रमादिनां श्लथीभूतवैयावृत्यादितत्कृत्यानां संस्मारणम्, चरमे द्वादशेऽधिकारे "वेयावचगराण" इत्यादिकाषो-त्सर्गकरणं, तदीयस्तुतिदानपर्यन्ते क्रियते इति शेषः / औचित्यप्रवृत्तिरूपत्वात धर्मस्य, अवस्थानरूपव्यापाराभावे गुणाभावापत्तेः / यतः"औचित्यमेकमेकत्र, गुणानां कोटिरेकतः। विषायते गुणग्रामः, औचित्यपरिवर्जितः" / / 1|| अपि च-अनौचित्यप्रवृत्तो महानपि “मथुराक्षपकयत् कुवेरदत्तायाः" भवत्यल्पानामपि प्रत्युचारणादिभाजनम् / आह चआ रङ्काद् भूपतिं यावदौचित्यं न विदन्ति ये। स्पृहयन्तः प्रभुत्वाय, खेलनं ते सुमेधसाम्।।१।।" इदमत्र तात्पर्यम् सर्वदाऽपि स्वपरावस्थानुरूपया चेष्टया सर्वत्र प्रवर्तितव्यमिति। उक्तं च-सदौचित्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्येति। (मथुराक्षपककुवेरदत्तादेव्योः संबन्धः सङ्घाचाराद् ज्ञेयः)

Page Navigation
1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388