Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1349
________________ चेइयवंदण 1325 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण - (32) येऽधिकारा यत्समताः / अथ येऽधिकारा यत्प्रमाणेन भण्यन्ते तदसंमोहार्थं प्रकटयन्नाहनव अहिगारा इह ललि-यवित्थरावित्तिमाइ अणुसारा। तिन्नि, सुयपरंपरया, वीओ दसमो इगारसमो॥३७॥ इह द्वादशस्वधिकारेषु मध्ये, नव अधिकाराः-प्रथमतृतीयचतुर्थपश्चमषष्ठसप्तमाष्टमनवमद्वादशस्वरूपाः,या ललितविस्तराख्या चैत्यवन्दनामूलवृत्तिः, तस्या अनुसारेण तत्र व्याख्यासूत्रप्रामाण्येन, भण्यन्त इति शेषः / तथा च तत्रोक्तम्-एतास्तिस्रःस्तुतयो नियमेनोच्यन्ते, केचित्त्वन्या अपि पठन्ति, न च तत्र नियम इतिनतट्याख्यानक्रिया, एवमेतत्पद्वित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति“वेयावच्चगराणं" इत्यादि। अत्र च एता इति "सिद्धाणं बु०१ जो देवाण वि०२ इक्को वीति०"३। अन्या अपीति-"उज्जिंतसेल०१, चत्तारि अट्ठ०२ तथा-जे य अईया” इत्यादि 3 / अतएवाऽत्र बहुवचनं संभाव्यते, अन्यथा द्विवचनं दद्यात्। पठन्तीति-"सेसा जहिच्छाए" इत्यावश्यकचूर्णिवचनादित्यर्थः / न च तत्र नियम इति, न तद्व्याख्यानक्रियेति तु भणन्तः श्रीहरिभद्रसूरिपादा एवं ज्ञापयन्ति यदत्रयदृच्छया भण्यते तन्न व्याख्यायते, यत्पनर्नियमतो भणनीयं तव्याख्यायते, व्याख्यातं च "वेयावचगराणं" इत्यादि सूत्रम्। तथा चोक्तम्-एवमेतत्पठित्वेत्यादि, यावत् पठन्ति "वेयावच्चगराणं" इत्यादि / ततश्च स्थितमेतद् यदुत “वेयावच्चगराणं" इत्थप्यधिकारोऽवश्य भणनीय एव, अन्यथा व्याख्यानासंभवात्। यदि पुनरेषोऽपि वैयावृत्यकराधिकार उज्जयन्ताद्यधिकारवत्क-श्चिद्भणनीयतया यादृच्छिकः स्यात्तदा 'उजिंतसेल' इत्यादिगाथावदयमपि न व्याख्यायेत्, व्याख्यातश्च नियमभणनीयसिद्धादिगाथाभिः सहायमनुविद्धसंबन्धेनेत्यतोऽत्रुटितसंबन्धायातत्वात् सिद्धाद्यधिकारवदनुस्यूत एव भणनीयः / अथाक्रमेण तत्र व्याख्यातं सूत्रमिति चेत्, एवं तहिं हन्त सकलचैत्यवन्दरनाक्रमाभावप्रसङ्गः, तत्रैवास्या एवं क्रमस्यदर्शितत्वात्। तदन्यत्र तथा व्याख्यानाभावाद् व्याख्यानेऽप्येतदनुसाररित्वात्तस्य पश्चात्कालप्रभवत्वाद् नव्यकरणस्य तु सुन्दरस्याऽपि भवनिबन्धनत्वात् तत्रोक्तस्य तूपदेशायाततया स्वच्छन्दकल्पिताभावादिति परिभावनीयं बह्नमाध्यस्थ्यमनसा, विमर्शनीयं सूक्ष्मधिया, विचिन्तनीयं सिद्धान्तरहस्य, पर्युपासनीयं श्रुतवृद्धानां प्रवत्तिंतव्यम्, असदाग्रहविरहेण यतितव्यं निजशक्त्याऽऽनुकूल्यमिति। एवं च द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्या द्वादशपर्यन्ता नव अधिकारा उपदेशायातललितविस्तराव्याख्यातस्तत्र सिद्धा इति सिद्धम / आदिशब्दात्पाक्षिकसूत्रचूादिग्रहः / तत्र सूत्रम् -देवसक्खियं” इति। अत्र चूर्णिः-"विरइपडिवत्तिकाले चिइबंदणाइणोवयारेण अवस्सं अहासंनिहयदेवयासंनिहाणम्मि भवइ, अओ देवसक्खियं भणिय” इति / अयमत्र भावार्थ:-तावद्गणधरैािर्थ पञ्चसाक्षिकं धर्मानुष्ठानं प्रतिपादितं, लोकेऽपि व्यवहारदा- 1 ढयस्य तथा दर्शनात् / तत्र देवा अपि साक्षिण उक्ताः, ते च चैत्यवन्दनाद्युपचारेणसन्नीभूताः साक्षितां प्रतिपद्यन्ते; चैत्यवन्दनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदानादिना क्रियते, अन्यस्य तत्रासंभवादश्रुतत्वाच, ततश्चैवमायातं, तथा चैत्यवन्दनामध्ये देवकायोत्सर्गादि करणीयमेव, अन्यथा तत्रान्यत्तदुपचाराभावे देवसाक्षि-कत्वासिद्धेः, चूर्णिकारेण तथैव व्याख्यातत्वान्निश्चीयते चैतत् "देवसक्खियं" इति सूत्रप्रामाण्यात्। एवमेव पूर्वापरविरोधाभावादुक्तं च सूत्रत्वं ललितविस्तरायामप्यस्य / तथा चोक्तम-व्याख्यातं “सिद्धेभ्यः" इत्यादि सूत्रमिति। तथा इदमेव वचनं ज्ञापकमिति, वचनं सूत्रं च पर्यायौ। एवं च सूत्रसिद्धा अप्येते नव अधिकारा इति सिद्धम् / ननु च ज्ञातं तावत् प्रथमतृतीयचतुर्थपशमषष्ठसप्तमाष्ठमद्वादशेति नवाधिकाराः, एवं सिद्धान्ताद्यनुसारेण भण्यन्ते, परं भवद्भिः “वार अहिगार" इति प्राक् प्रतिज्ञातम्, ततः शेषाः कुतः प्रामाण्यात्पठ्यन्ते, इत्याशङ्कयाऽऽह "तिन्नि सुय" इत्यादि। त्रयोऽधिकाराःपुनः (सुयत्ति) “तेलुग्या" / / 3 / 2 / 108 // इति पूर्वपदस्य बहुशब्दस्य लोपात् बहुश्रुताः, तेषां पारम्पर्येण गीतार्थपूर्वाचार्यसंप्रदायेन भण्यन्ते, पारम्पर्यागतस्यार्थ-स्य सुमत्या निषेधयितुमशक्यत्वात्, तन्निषेधे निहवमार्गानुयानापत्तेः / उक्तं च द्वितीयाङ्गनियुक्तौ आयरियपरंपरएण आगयं जो उ अप्पबुद्धीए। को वेइ छेइ वाई, जमालिना स स नासिहिई ||१|त्तिा अशठाचरितेन च आज्ञारूपत्वात्, तथाऽपि निषेधे जिनाशातनाप्रसङ्गाच / तथा च कल्पभाष्यम्- “आयरणा वि हु आणा, अविरुद्धा चेव होइ आण त्ति। इहरा तित्थयरासायण त्ति तल्लक्खणं चेयं / / 1 / / " इत्यादि / अथवा(सुयपरंपरय त्ति) यथा श्रुतस्य व्याख्यानं नियुक्तिः, ततोऽपि भाष्यचूदियः, एवं श्रुतपारम्पर्येण। अयमर्थः-यथा सूत्रे चैत्यवन्दना ततः श्रुतस्तवं यावदुक्तो, निर्युक्तौ तु “सिद्धाण थुई किइकम्म" ति श्रुतस्तवस्योपरि सिद्धस्तुतिर्भणिता / चूर्णां तु सिद्धस्तुतेरप्युपरि श्रीवीरस्तुतिद्वयं व्याख्याय भणितम्- “जहा एए तिन्नि सिलोगा भन्नंति, सेसा जहिच्छाए" त्ति / ततश्च यथा निर्युक्तयादिव्याख्याताः सिद्धादिगाथास्तिस्रो भण्यन्ते, तथा उज्जयन्ताद्यपि भण्यते, चूर्णिकारेणाऽनिषिद्धत्वादिच्छाद्वारेणानु-ज्ञातत्वाच / तथा हि-"सेस त्ति" अनेन उज्जयन्तादिगाथास्तित्वं प्रतिपादितम्, असतो भणनाभावात् / "जहिच्छाए" इत्यनेनतु वन्दनकरणेच्छावता “उजिंत" आदिगाथाभणने स्वाभिमतत्वं दर्शयति, अनभिमतस्येच्छाऽयोगात् / येषां हि उज्जयन्तादि वन्दितुमिच्छतिशयः, ते भणन्तु नाम, उज्जयन्तादिगाथाभणनतया कर्मक्षयहेतुत्वात् प्रवृत्तिरित्यर्थः / अथ के ते त्रयोऽधिकारा एवं श्रुतपारम्पर्येण भण्यन्ते, इत्याह-“वीओं" इत्यादि द्वितीयः "जे य अईया" इत्यादिरूपः, दशमः "उजिंत" इत्यादिलक्षणः एकादश चत्तारि “इत्यादिस्वरूपः”। एते त्रय इत्यर्थः / / 37|| अमुमेवार्थ भाष्यकृत्स्पष्टयन्नाहआवस्सयचुण्णीए, जंभणियं सेसया जहिच्छाए। तेणं उचिंताइ वि, अहिगारा सुयमया चेव // 38 // आवश्यक चूर्णी प्रतिक मणाध्ययने, यद्यस्मादणितमिदम्, तद्भणितमेव दर्शयति-(सेसया जहिच्छाए) भणन्तीति प्रकृतम् / शेषाः "सिद्धाण०१ जो देवाण वि०२ इक्को वि०३" इति गाथाभ्योऽन्या गाथा “उजिंतसेल" इत्यादिका यदृच्छया भण्यन्ते / या या इच्छा यदृच्छा। अयमर्थः-यस्य यस्य भावेनातिशयतो नेमिनाथादि वन्दितुं वाञ्छा वर्द्धते, स भणतु नामैता गाथाः, न दोषः, सं

Loading...

Page Navigation
1 ... 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388