Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1358
________________ चेइयवंदण 1334 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण कल्पद्रुमादिपरिग्रहः / मकारस्त्वागमिकः / अपिशब्दार्थ तूत्तरार्द्धन वक्ष्यति, न नैव, अभव्या अयोग्याः, प्राप्नुवन्त्यासादयन्ति, किं पुनरिति पदमप्राप्तिविशेषद्योतकं, सुतरांनप्राप्नुवन्तीत्यर्थः / एतां वन्दनाम्, परमा प्रधानामाद्यभङ्गकद्वयगताम्, परमपदबीजं निर्वाणहेतुम्, इतिशब्दो हेत्वर्थः / तेन परमामेतां परमपदबीजत्वादिति। समाप्त्यर्थो वाऽयमिति गाथार्थः // 46 // अभव्यास्तावदिमांन प्राप्नुवन्ति, भव्या अपि न सर्व एवेति दर्शयन्नाह - भव्वा वि एत्थ णेया, जे आसन्ना ण जाइमेत्तेणं। जमणाइ सुए भणियं, एयं ण उइट्ठफलजणगं / / 47 / / भव्या अपि योग्या अपि, अभव्यास्तावदयोग्या एवेत्यपिशब्दार्थः। अत्र परमवन्दनाप्राप्तौ, ज्ञेया ज्ञातव्याः, य एव केचिदासन्नाः, परमपदस्येति गम्यम् / व्यतिरेकमाह-न जातिमात्रेण न जात्यैव, भव्या इति प्रक्रमः / कुत एतदेवमित्याह- यद्यस्मादनादिकालीनं, श्रुते सिद्धान्ते, भणितमुक्तम, एतद्भव्यत्वं, न तु न पुनर्विद्यमानमपीष्टफलजनकमभिमतार्थसाधक, मोक्षप्रापकमित्यर्थः / सर्वभाट्यानां निर्वाणाप्राप्ते रिति गाथार्थः // 47|| तत्र ये तावदेतां विधिना सेवन्ते, तद्विधिं वा श्रद्दधति, ते आसन्नाभव्याः, ये तुतां न द्विषन्ति तेऽप्यासन्ना एवेतिदर्शयन्नाहविहिअपओसो जेसिं, आसण्णा ते वि सुद्धिपत्त त्ति। खुद्दमिगाणं पुण सुद्धदेसणा सीहणायसमा / / 48 / / विधौ विधाने सम्यक्करणे, वन्दनाया इति प्रक्रमः / प्ररूप्यमाणे अप्रद्वेषोऽमत्सरो, माध्यस्थ्यं भवति। येषां भव्यानाम्, आसन्ना निकटवर्तिनः, परमपदस्येतिगम्यम्। तेऽपि,न केवलमासेवाश्रद्धानवन्त एवेति। कुत एवमित्याह-शुद्धिप्राप्ता अवाप्तक्लिष्टकर्मक्षयोपशमा इति कृत्वा, न हि क्लिष्टकर्मणां मार्ग प्रति माध्यस्थ्यमपि जायते / एतदेव दर्शयतिक्षुद्रमृगाणां क्लिष्टकर्मसत्त्वहरिणानां, पुनःशब्दो विशेषणार्थः, शुद्धदेशना विशुद्धप्रज्ञापना, विधिविषय उपदेश इत्यर्थः / सिंहनादसमा केशरिशब्दतुल्या, त्रासहेतुत्वादनिष्टेत्यर्थः / इति गाथार्थः / / 48|| एवं वन्दनां प्रति विध्यविध्योः फलमुपदी विधेर्विधे यतामुपदिशन्नाहआलोचिऊण एवं, तंतं पुटवावरेण सूरिहिं। विहिजत्तो कायव्वो, मुद्धण हियट्ठया सम्मं // 46 // आलोच्य विमृश्य, एवं पूर्वोक्तन्यायेन, तन्त्र प्रवचनं, कथमित्याहपूर्वश्च तन्त्रस्य पूर्वो भागोऽपरश्च तसयैवापरो भागः पूर्वापर, तेन सप्तम्यर्थे वा एनप्रत्यये सति पूर्वपरेणेति स्यात्, पूर्वापरभागयो रित्यर्थः, तयोरविरोधेनेति यावत् / अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति सूरिभिचार्यः, पण्डितैर्वा, विधौ विधाने वन्दनागते वेलाद्याराधनरूपे, यत्न उद्यमो विधियत्नः, स कर्त्तव्या विधातव्यः। विमुक्तालस्यैः स्वयं वन्दना कार्या, अन्यैरपि विधिनैव सा विधापयितव्या इत्यर्थः / किमर्थमेतदेवमित्याह- मुग्धानामव्युत्पन्नबुद्धीनाम, हितं श्रेयः, तद्रूपो योऽर्थो वस्तु स हितार्थः तस्मै हितार्थाय।। सम्यगविपरीततया, यदा हि गीतार्था विधिना स्वयं वन्दनां विदधति, / अन्यांश्च तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वात् मार्गाणाम्। आह च-"जो उत्तमेहिँ मग्गो, पहओ सो दुक्करो न सेसाणं / आयरियम्मि जयंते, तयणुचरो केण सीएज्जा" // 1 // तथा“जे जत्थ जया जइया, बहुस्सुया चरणकरणउज्जुत्ता। जंते सामग्ररंती, आलंवणतिव्वसद्धाणं // 1 // (जय त्ति) दुःषमादौ (जइय त्ति) दुर्भिक्षादाविति / तथा प्रवृत्ताश्च ते वन्दनाराधनजन्यं हितमासादयन्ति, तद्विराधनाजन्यप्रत्यपायेभ्यश्च मोचिता भवन्तीति। अयं चोपदेशोऽसमञ्जसतया स्वयं वन्दनां विदधानांस्तथाऽनवाप्तापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितल्लिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन वीक्ष्याचार्येण विहितः। एवं हि तत्प्रवृत्तौ तेषामन्येषां चाऽनर्थोऽसमञ्जसक्रियाजन्या च शासनाऽपभ्राजना मा भूदित्यभिप्रायेण / इति गाथार्थः / / 46|| उपदेशशेषमाहतिव्वगिलाणादीणं, मेसजदाणाइयाइँ णायाई। दट्ठय्वाई इहं खलु, कुम्गहविरहेण धीरेहिं / / 50|| टीका सुगमा। पञ्चा०३ विव०। (37) अत्र हीरविजयसूरिकृतप्रश्नोत्तरकदम्बकम् - स्वकीयेतरकल्पे देवाश्चैत्यानि वन्दन्ते, नवा? देवा यदा स्वकीयेतरकल्पे यान्ति, तदा तत्रत्यचैत्यवन्दननिषेधी ज्ञातो नास्तीति / ही०४ प्रका०। चैत्यालये चैत्यवन्दनकरणम् ईर्यापथिकीप्रतिक्रमणपुरस्सरमेव, अन्यथाऽपि वा ? चैत्यालये ईपिथिकीपुरस्सरं चैत्यन्दनकरणविषये एकान्तो नास्तीति ज्ञायते। ही०३ प्रका०। शीतोष्णकालयोर्गृहस्थानां जिनालये देववन्दनं काजोद्धरण पूर्वकं, किं वा प्रमार्जनेन ? शीतोष्णकालयोर्गृहस्थानां जिनालये देववन्दननिमित्तं काजोद्धरणस्य नियमो नास्ति, तेन यदि कश्चित् करोति तदा करोतु। ही०२ प्रका०। गृहस्थाचारधरो यतिवेषवान् प्रतिक्रमणं कर्तुकामः किं सामायिकग्रहणपूर्वकं करोति, अथवा चैत्यवन्दनतः ? गृहस्थाचारधरो यतिवेषवान् मुख्यवृत्त्या सामायिकग्रहणं कृत्वा प्रतिक्रमणं करोति / ही०२ प्रका०। सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपविश्यते तदा किमीर्यापथिकीप्रतिक्रमणपूर्वकमेवान्यथा वेति प्रश्ने, उत्तरम्मुहूर्ताद्यवस्थानसंभावनायामैर्यापथिकी प्रतिक्रम्यते, अन्यथा तु यथाऽवसरमिति। 364 प्र०। सेन०३ उल्ला०। श्राविका जिनालये चैत्यवन्दना विधायोज़ स्थिता सत्येकनमस्कारकायोत्सर्ग कृत्या चैका स्तुतिं कथयत्येतद्विधिः क्वास्तीति प्रश्ने, उत्तरम्-एतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे कथितोऽस्ति, परमेतद्विधिकरणप्रवृत्तिरधुना श्राविकामध्ये न दृश्यत इति। 26 प्र०। सेन०४ उल्ला०। अथ पं० सत्यसौभाग्यम० कृतप्रश्नः, तदुत्तरं च।यथा उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयो वर्णैर्वृद्धा विधीयन्ते, न त्वल्पा इति रूढिः सत्याऽसत्या वेति प्रश्ने, उत्तरम्-उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयः प्रायो वर्णवृद्धा एव विधेया इति परम्परा वर्तते, तेन रूढिः सत्यैवावसीयते, परम्परामूलंतुनमोऽस्तुवर्धमानायेत्यस्याधिकारे "ताओ अथुईओ एगसिलोगादिवड्डुतिआओ पयक्खरादीहिं वा सरेण वा वढतेण

Loading...

Page Navigation
1 ... 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388