Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1355
________________ चेइयवंदण 1331 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण “वेय ति" "वेयावच्चगराणं" इत्यादिना कायोत्सर्गः कार्यः, ततः "थुइ सि" वैयावृत्यकरादिविषयैव चतुर्थी स्तुतिर्दीयते, ततः प्राग्वत् प्रणामपूर्वक जानुद्वयं भूमौ विन्यस्य करधृतयोगमुद्रया “नमोऽत्थु" ति पुनः शक्रस्तवदण्डको भणनीयः, तदन्ते प्रणामं कृत्वा “जावंति" त्ति सर्वजिनवन्दनाप्रणिधानरूपा "जावंति चे इयाई" इत्यादिगाथा भणनीया / उक्तं च पञ्चवस्तुकेवन्दित्वा द्वितीयप्रणिपातदण्डकावसाने इत्यादि। ततः क्षमाश्रमणं दत्त्वा “जावंति केइ साहू" इत्यादिना द्वितीयं मुनिवन्दनास्वरूपं प्रणिधानं करणीयं, पुनः क्षमाश्रमण दत्त्वा “इच्छाकारेण संदिसह भगवन् ! स्तवनं भणितुम्" इति भणित्वा स्तोत्रं भणनीयम् ततो मुक्ताशुक्तिमुद्रया "जय वीरविराय" इत्यादि तृतीय प्रार्थनालक्षणं प्रणिधानं विधेयमिति। "पणदंमथुइचउक्कग-थुइपणिहाणेहि उक्कोस" त्ति प्रागुक्तक्रमप्रतिपादिका गाथा भणनीया। उक्तं चाक्षरार्थः। अथ भाष्यकृत् सद्गुरुबहुमानातिशयतः स्वगुरुनामज्ञापना गर्भ प्रकुष्टफलदर्शनद्वारेण निगमयन्नाह - सव्वोवाहि विसुद्धं, एवं जो वंदए सया देवे। देविंदविंदमहियं, परमपयं पावइ लहुँ सो // 50 // सर्वे श्रावकादिविषया ऋद्धिमदनृद्धिमद्गोचरा देशकालाद्यनुगता द्रव्यस्तवभावस्तवस्वरूपा वन्दनीयस्तवनीयादिविषयप्रणिधानलद्वक्षणाश्च उपाधयो धर्मानुविद्धश्चिन्ताः "उपाधिर्धर्मचिन्तनम्" इतिवचनात्, न पुनः सावधैहिकप्रयोजनविषयाः, लोके स्वभावसिद्धा हि ते, इति नोपदेशपराः, अप्राप्ते हि शास्त्रमर्थवत् / न हि मलिनः स्नायात, बुभुक्षितो वाऽश्रीयादित्यत्र तत् / परमं च तत्पदं च परमपदं, तीर्थकरपदवीमित्यर्थः। यदागमः“सामंतो चक्कहरं, चक्कहरो सुरवइत्तण कंखे। इंदो तित्थयरतं, तित्थयरे पुण तिजयसुहए / / 1 / / तम्हा जं इंदेहि वि, कंखिज्जइ एगबद्धलक्खेहि। इय साणुरायहियएहिँ उत्तमं तं न संदेहो" ||2|| प्राप्नोति समासादयति, लघु शीघ्रं स यथोपाधिचैत्यवन्दनाकर्ता। उक्तं चागमे - "जो पुण दुहउव्विग्गो, सुहतण्हालू अलि व्व कमलवणे। थयथुइमंगलजइसद्दवावमो हुण मुणे किं पि।।१।। भत्तिभरनिभरो जिणवरिंदपायारविंदजुगपुरओ। भूमिनिट्टवियसिरो, कयंजलीवावडो भत्तो / / 2 / / इक्कं पि गुणं हियए, धरिज संकाइसुद्धसंमत्तो। अक्खंडियवयनियमो, तित्थयरत्ताइ सो सिज्झे" ||3|| ततश्च यावत्तीर्थकरत्वं स्यात्तावन्मेघरथचक्रीन्द्रत्वाद्यनुभवति। अथवा | परमपदं मुक्तिपदं, परमज्ञानादिचतुष्टययोगात्, शेषं प्राग्वत् तथा चागमः"नाम पिसयलकम्मड्डमलकलंकेहि विप्पमुक्काणं। लियसिंदवियचलणाण जिणवरिंदाण जो सरइ / / 1 / / तिविहकरणोवउत्तो, खणे खणे सीलसंजमुजुत्तो। अविराहियवयनियमो, सो वि हु अइरेण सिज्झिज्जा / / 2 / / " सङ्घा०३ प्रस्ता०। पञ्चा०। (मेघरथकथा सङ्घाचाराद् ज्ञातव्या) अथ शुद्धवन्दनस्यैव मोक्षहेतुत्वम्। अथ शुद्धवन्दनैव ___ मोक्षहेतुरिति दर्शयितुमाह - इत्तो उ विभागाओ, अणादिभवदव्वलिंगओचेव। णिउणं णिरूवियव्वा, एसा जह मोक्खहेउत्ति॥३१।। इतस्त्वस्मादेवानन्तरोक्ताद्, विभागात्प्रथमकरणस्योपरि शुद्धवन्दना भवतीत्येवं लक्षणात्, तथा अनादिभवे निष्प्राथम्यसंसारे, यानि द्रव्यलिङ्गानि, भावविकलत्वेनाप्रधानप्रव्रजितादिनेपथ्य-वरणलक्षणानि तानि, तथा तेभ्यस्ततोऽनादिभवद्रव्यलिङ्गतः, चशब्दः समुच्चये, एवशब्दोऽवधारणे, स चान्यत्र योक्ष्यते। निपुणं सुनिश्चितं यथा भवतीत्येवं निरूपयितव्या पर्यालोचनीया / कथम् ? यथेति यदुत, एषा एषैव शुद्धवन्दनैव, नेतरा, मोक्षहेतुर्निर्वाणबीजम् / अथवा इत एव विभागादनादिभवद्रव्यलिङ्गतश्च यस्मादियममोक्षहेतुरपि स्यादतस्तथा निरूपयितव्या। एषा वन्दना यथा मोक्षहेतुः स्याच्छुद्धा विधेयेत्युपदेशः। इतिशब्दो वाक्यार्थसमाप्तौ / अयमभिप्रायः-प्रथमकरणाभ्यन्तरे अनादिभवद्रव्यलिङ्गेषु चेयमनन्तशोऽवाप्ताऽपि न मोक्षहेतुर्जाता, अशुद्धत्वात्, अतोऽधुना तथा निरूपणीयेयं यथा मोक्षहेतुः स्यात्, शुद्धा विधेयेति भावः। इति गाथार्थः // 31 // अनादिभवद्रव्यलिङ्गत इत्यनेनानन्तशः प्राप्तिरस्या उक्ता, सा चाशुद्धाया एव, न तु शुद्धाया इत्येतद्दर्शयितुमाहणो भावओ इमीए, परो विहु अवडपोग्गला अहिगो। संसारो जीवाणं, हंदिपसिद्ध जिणमयम्मि॥३२॥ नो नैवं, भावतः शुद्धाध्यवसायतः, शुद्धायामित्यर्थः / (इमीए ति) अस्यां वन्दनायां सत्या, परोऽप्युत्कृष्टोऽपि, आस्तामितरः। हुशब्दोऽलङ्कारे / (अवड्डपोग्गल त्ति) इह पुद्गलशब्देन भीमादिन्यायेन पुद्गलपरावर्तोऽभिप्रेतः ततश्चार्द्ध पुद्गलपरावर्तस्येत्यर्द्धपुद्गलपरावर्तः / अप इत्यपकृष्टः किञ्चिन्यूनोऽर्धपुद्गलपरावर्तोऽपार्धपुद्गलपरावर्तः। तस्मादधिकोऽर्गलः, संसारो, जीवानां जन्तूनां, भवतीति गम्यम् / कथमिदं सिद्धमित्याह-हन्दीत्युपप्रदर्शने / प्रसिद्धं प्रख्यातं, जनमतेऽर्हत्सिद्धान्ते / यदाह-"कालमणतं च सुए, अद्धापरियट्टओ य देसूणो। आसायणबहुलाणं, उक्कोसं अंतर होइ॥१॥” इति। अतो द्रव्यत एषाऽऽसीत्, अनादौ भवे निरर्थका चेति गाथार्थः / / 32 / / प्रकृतार्थ निगमयन्नाह -- इय तंतजुत्तिओ खलु, णिरूवियव्वा बुहेर्हि एस त्ति। ण हु सत्तामेत्तेणं, इमीऍ इह होइ णेय्वाणं // 33|| इत्यनन्तरोक्तायास्तन्त्रयुक्तेस्तन्त्रयुक्तित आगमाश्रितोपपत्तिमाश्रित्य, अथवा तन्त्रं युक्तिं चाऽऽश्रित्य, खलुक्यालङ्कारे, निरूपयितव्या आलोचनीया, मोक्षहेत्वहेतुभ्याम् / बुधैविंद्वद्भिनिर्वाणार्थिभिरित्यर्थः / एषा अनन्तरोक्ता वन्दना / इतिशब्दो वाक्यार्थसमाप्तौ / अथ कस्माद् निरूपणमस्या उपदिश्यत इत्याह- न हु नैव, सत्तामात्रेण सद्भावेनैव, (इमीए) अस्या वन्दनया, इह वन्दनाविचारे, भवति जायते, निर्वाणं निवृतिः, किं तु शुद्धयाऽनया तत् जायते: अतस्तस्यां यतितव्यमिति हृदयम्। इति गाथार्थः // 33 //

Loading...

Page Navigation
1 ... 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388