Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1308
________________ चे इय १२८४-अभिधानराजेन्द्रः-भाग 3 चेइय मङ्गलार्थे तथा रक्तं, पञ्चवर्ण च सिद्धये / / 15 / / पञ्चामृतं तथा शान्तौ, दीपः स्यात् सघृतैर्गुडैः। वहौ लवणनिक्षेपः, शान्त्यै तुष्ट्यै प्रशस्यते / / 16 / / खण्डिते संधिते छिन्ने, रक्ते रौद्रे च वाससि। दानपूजातपोहोम-संख्यादि निष्फलं भवेत् / / 17 // पद्मासनसमासीनो, नासाऽग्रन्यस्तलोचनः / / मौनी वस्त्रावृतस्थोऽयं, पूजां कुर्याजिनेशितुः // 18 // स्नात्रं विलेपनविभूषणपुष्पवासधूपप्रदीपफलतन्दुलपत्रपूर्गः // नैवेद्यवारिवसनैश्चमराऽऽतपत्रवादित्रगीतनटनस्तुतिकोशवृद्ध्या / / 16 / / इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव / खण्डीकृता कुमतिभिः कलिकालयोगायद्यत्प्रियं तदिह भाववशेन योज्यम् // 20 // इति / एवमन्यदपि जिनबिम्बवैशिष्ट्यकरणचैत्यगृहप्रमार्जनसुधाधवलनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरणसामग्रीरचनपरिधापनिकाचन्द्रोदयतोरणप्रदानादिसर्वमङ्गादिपूजायामन्तर्भवति; सर्वत्र जिनभक्ते रेव प्राधान्यात् / गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनाया वर्जनीयत्वात् / अत एव देवसत्कपूष्पधूपदीपजलपात्रचन्द्रोदयादिना गृहकार्य किञ्चिदपि न कार्यमेव, नापि स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिक्रियोत्थद्रव्यं व्यापार्यम् / चैत्यान्तरे तु स्फुटतत्स्वरूपं सर्वेषां पुरतो विज्ञाप्यारोप्यम्, अन्यथाऽपणे च मुधा जनप्रशंसादिदोषप्रसङ्गः / गृहचैत्यनैवेद्याद्यप्यारामिकस्य मुख्यवृत्त्या मासदेयस्थाने न देयं, शक्तयभावे च आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः / इति पूजाविधिः / ध०२ अधि०। प्रस्तावितद्वारमेवोपदर्शयन्नाहसारा पुण थुइथोत्ता, गंभीरपयत्थविरइया जे उ। सब्भूयगुणुकित्तण-रूवा खलु ते जिणाणं तु / / 24 / / साराणि प्रधानानि, पुनःशब्दो विशेषद्योतनार्थः / तचैवम्-सारैः स्तुतिस्तोत्रैणुर्वी पूजा कर्तव्या; साराणि पुनस्तानि कानीत्युच्यते, यानि त्वित्येतस्येह दर्शनाद्यान्येव गम्भारैरतुच्छैः पदानां शब्दानामर्थरभिधेयैविरचितानि दृब्धानि गम्भीरपदार्थविरचितानि। तद्यथा-'पडिवण्णचरिमतणुणो, अइसयलेसं पि जस्स दलूणं / भवहुत्तमणा जायं-ति जोइणो तं जिणं नमह' / / 1 // जे उत्ति' व्याख्यातमेव। अतुच्छपदार्थयुक्तान्यपिकानिचिदसद्भूतगुणकीर्तनरूपाणि स्युः / यथा-- माय मर्त्यजगतस्तल एव शङ्के, शाकम्भरीनृप! गतं न भवद्यशोभिः / गायन्ति तानि यदि तत्र भुजङ्गयोषाः, शेषः शिरांसि धुनुयान्न मही स्थिरा स्यात् // 1 // इत्येतद्व्यवच्छेदायाऽऽह- सद्भूतगुणोत्कीर्तनरूपाणि विद्यमानगुणग्रहणस्वभावान्येव, खलुरवधारणे, तानि स्तुतिस्तोत्राणि, जिनानां तु | आप्तानामेव। तद्यथा-"आणा जस्स विलइया, सीसे सव्वेहि हरिहरेहिं पि / सो वि तुह झाणजलणे, मयणो मयणं व पविलीणो" / / 1 / / इति गाथार्थः / / 24 / / अथ कथं स्तुत्यादिप्रधानपूजाया गुवीत्वमित्यत्रोच्यते, स्तुत्यादीनां कुशलपरिणामहेतुत्वादेतदेवाऽऽहतेसिं अत्थाहिगमे, णियमेणं होइ कुसलपरिणामो। सुंदरभावा तेसिं, इयरम्मि वि रयणणाएण // 25 / / तेषां सारस्तुत्यादीनामभिगमेऽभिधेयाऽवगमे सति,नियमेनावश्यंभावेन,भवति जायते, कुशलपरिणामः शुभाध्यवसायः, अर्थाधिगमस्य प्रायः कुशलपरिणामकारकत्वादिति भव्यस्तोतृणामिति गम्यते / एवं तीर्थाधिगमवतामेव स्तुत्यादिभिर्गुर्वी पूजा स्यान्नान्येषामित्यत्रोच्यतेसुन्दरभावात् शुभभावत्वात्, तेषां स्तुत्यादीनाम्, इतरस्मिन्नपि तदर्थानवगमेऽपि, आस्ता तदर्थाधिगम, कुशलः परिणामो भवतीति प्रकृतम् / अथ कथमिदमवसीयते इत्याह-रत्नज्ञातेन माणिक्योदाहरणेन, यथा रत्नमज्ञातगुणमपि सुन्दरस्वभावतया गुणकरमेवमेतान्यपीति गाथार्थः / / 25 // अधिकृतमेव ज्ञातं ज्ञापनीये योजयन्नाहजरसमणाई रयणा, अण्णायगुणा वि ते समिति जहा। कम्मजराई थुइमा-इया वि तह भावरयणाओ / 26 // ज्वरशमनादीनि ज्वरापहारप्रभृतीनि, आदिशब्दाच्छूल मनादिग्रहः, रत्नानि माणिक्यानि, अज्ञातगुणान्यपि रोगिभिरविदितज्वरादिशमनसामान्यपि, न केवलं ज्ञातगुणान्येव तान् ज्वरादिरोगान् शमयन्ति नाशयन्ति, यथा येन प्रकारेण, सुन्दररूपतालक्षणेन, कर्मज्वरादीन् कर्मलक्षणज्वरादिरोगान स्तुत्यादीन्यपि स्तुतिस्त्रोत्राण्यपि, न केवलं रत्नान्येव, (तह इति) अत्रोत्तरस्यावधारणार्थस्य तुशब्दस्य संबन्धात्, तथैव तेनैव प्रकारेण, किं भूतानि स्तुत्यादीनि? भावरत्नानि पारमार्थिकमाणिक्यानि, शमयन्तीति प्रकृतमिति गाथार्थः / / 26 / / सारस्तुतिस्तोत्रद्वारनिगमनम् तथा यदुक्तम्-''सारथुइथोत्तसहिया, उ तह य चिइवंदणाउंति' / पञ्चा० 4 विव०। पूजा अविच्छेदतोऽस्य कर्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेनस्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम्। विभवानुसारतो यत्, काले नियतं विधानेन / / 1 / / अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान्। पूज्यो हितकामाना-मिति भक्त्या पूजनं पूजा // 2 // स्नानं गन्धद्रव्यसंयोजितं, स्नात्रं वा, विलेपन चन्दनकुङ्कुमादिभिः, सुटु सुगन्धिपुष्पाणी जात्यादिकु सुमानि / तथा सुगन्धिधूपो गन्धयुक्तिप्रतीतः, तदादिभिरपरैरपि शुभैर्गन्धर्द्रव्यविशेषैः, कान्तं मनोहारि, विभवानुसारतो विभवानुसारेण, यत् पूजनमिति संबन्धः / काले त्रिसंध्यं स्ववृत्त्यविरुद्ध वा, नियंत सदा, विधानेन शास्त्रोक्तेन / / 1 / / उपकृतमुपकारो, न विद्यते उपकृतं येषां ते इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः / ते च ते परे च तेभ्यो हितं तस्मिन् रतोऽभिरतः, प्रवृत्तोऽनुपकृतपरहितरतो निष्कारणवत्सलः, शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो, भगवान् समग्रेश्वर्यादिसंपन्नः, पूज्यः पूजनीयो, हितकामानां हिताभिलाषिणां, सत्त्वानामित्येवं विधेन कुशलपरिणामेन, भक्त्या विनयसेवया, पूजनं पूजोच्यते // 2 //

Loading...

Page Navigation
1 ... 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388