Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1304
________________ चेइय १२८०-अभिधानराजेन्द्रः-भाग 3 चेइय एत्तो विसुद्धभावो, अणुहवसिद्धो चिय वुहाणं / / 11 / / भूमेः प्रेक्षणं च स्नानभुवः प्राणिरक्षार्थ चक्षुवा निरीक्षणं, जलच्छाणनं पूतरकपरिहारार्थं नीरगालनमादिः प्रमुखं यस्य व्यापारवृन्दस्य तमिप्रेक्षणजलच्छाणनादि / आदिशब्दान्मक्षिकारक्षणादिग्रहः / तत्किमित्याह-यतना प्रयत्नविशेषः, तुशब्दः पुनरर्थः। तद्भावना चैवम्स्नानादि यतनया गुणकरं भवति, यतना पुनर्भूमिप्रेक्षणजलच्छा-- णनादिर्भवति वर्त्तते / केत्याहस्नानादावधिकृते, देहशौचविलेपनजिनाऽर्चनप्रभृतिनि च, इह च प्राकृते औकाराश्रुतेरभावात् (ण्हाणाओ) इत्येवं पठ्यत इति। (एत्तोत्ति) कृतः पुनर्यतनाविहितस्नानादेर्विशुद्धभावः शुभाध्यवसायोऽनुभवसिद्ध एव स्वसंवेदनप्रतिष्ठित एव, बुधानां बुद्धिमताम्, अनेन च शुभभावहेतुत्वा दित्यस्य पूर्वोक्तहेतोरसिद्धताशङ्का परिहता, इति गाथार्थः // 11 // आरम्भवतो यतनया स्नानादि गुणायेति यत् प्रागुक्तं तत्र कश्चिदाह-आरम्भवानपि यद्यधिकतरपापभीरुतया धर्मार्थं स्नानादि न करोति, तदा न क्षुण्णभुत्पश्याम इत्याशङ्ख्याऽऽहअण्णत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो। लोए पवयणखिंसा, अवोहिवीयं ति दोसा-य॥१२॥ अन्यत्राधिकृतस्नानादेरपरत्र विविधदेहगेहादिकर्मसु, आरम्भवतो भूतोपमर्दनकारिणः सतो दे हिनो, धर्मे धर्मविषये, जिनादिनिमित्तमित्यर्थः / (अणारंभओ त्ति) अनारम्भ एवानारम्भको, भूतोपदमर्दनपरिहारः। किमित्याह अनाभोगो ज्ञानाभावो वर्त्तते, अनाभोगकार्यत्वादनारम्भस्य / अथवा अनारम्भतोऽनारम्भादनाभोगोऽवसीयते / ज्ञानाभाव एव हि शास्त्रानुमतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासाते / तथा लोके शिष्टजने, तन्मध्य इत्यर्थः / प्रवचनखिंसा जिनशासनाश्लाघा-''पूजाविधानाप्रतिपादनपरं जिनशासनम्, अन्यथा कथमार्हताः शौचादिव्यतिरे के णापि जिनं पूजयन्ति'' इत्यादिरूपा भवति / सा चाबोधेर्जन्मान्तरे जिनधर्माप्राप्ते/जमिव बीज हेतुरबोधिबीजम्। इत्येतावनन्तरोक्तौ दोषौ दूषणे भवतः। च शब्दोऽनाभोगापेक्षया समुचयार्थः / अथ वा-दोषाय भव प्राप्तिलक्षणाय तदबोधिबीजं संपद्यते / इतिशब्दः समाप्तौ / ततो द्रव्यतः स्नातेन शुद्धवस्त्रेण च जिनपूजा विधेयेति स्थितमिति गाथाऽर्थः / / 12 // अथ भावशौचानाश्रयणे दोषाभिधानायाऽऽहअविसुद्धा विहु वित्ती, एवं चिय होइ अहिगदोसा उ। तम्हा दहा वि सुइणा, जिणपूजा होइ कायव्वा // 13 // अविशुद्धा अवस्थाया औचित्येन सावद्या, अपिशब्दो भिन्नक्रमः। हुशब्दो | वाक्यालङ्कारे, वृत्तिरपि जीविकाऽपि न केवलं स्नानाद्यभाव एव / (एवं चिय ति) एवमेवानेनैव प्रकारेण, स्नानादिद्रव्यशौचाकरणप्रदर्शितेन, भवति संपद्यते, अधिकदोषा तु द्रव्यशौचाभावापेक्षया प्रचुरदूषणैव / यतोऽनाभोगादयो द्रव्यशौचाभावोक्ता दोषास्तावदशुद्धवृत्त्यां भवन्त्येव, अन्ये च राजनिग्रहादयो भवन्ति, अन्यायरूपत्वात्तस्याः / अथ शूचिभूतेनेत्येतद्दवारोपसंहाराय(तम्ह त्ति) यस्मात् द्रव्यशौचभावशौचाभावे एते दोषा भवन्ति, तस्माद्धेतोः, द्विधाऽपि द्रव्यभावभेदा- | त्प्रकारद्वयेनाऽपि, आस्ताम् एकप्रकारेण / शुचिना शुचिभूतेन, जिनपूजाऽहंदर्चनम्, भवति वर्तते, कर्तव्या विधेयेति गाथार्थः / / 13 // उक्तं शुचिभूतेनेति द्वारम्। अथ विशिष्टपुष्पादिभिरित्येतत्वारप्रतिपादनायाऽऽहगंधवरधूवसवो-सहीहि उदगाइएहिं चित्तेहिं। सुरहिविलेवणवरकुसु-मदामवलिदीवएहिं च // 14 // सिद्धत्थयदहिअक्खय-गोरोयणमाइएहिं जहलाभ। कंचणमोत्तियरयणा-इदामएहिं च विविहेहिं॥ 15 // युग्मम्। द्वारगाथायां पुष्पादिभिरित्येवं द्वारस्य निर्दिष्टत्वाद् गन्धेत्यादि न युक्तम् / अत्रोच्यते-पुष्पादिभिरित्यत्रादिशब्दस्य प्रकारार्थत्वेन पुष्पादिभिः पुष्पप्रकारैरिति व्याख्यानान्न दोषः / वरधूपः प्रधानधूपो, गन्धवरो वा गन्धप्रधानो धूपः कृष्णागरुप्रभृतिगन्धयुक्ति प्रसिद्धः, सर्वोषधयो लोकरूढाः, एतेषां द्वन्द्वः / ताभिर्जिनपूजा भवति, कर्त्तव्येत्यनेन द्वारगाथोक्तेन योगः। तथोदकादिभिर्जलप्रभृतिभिरादिशब्दादिक्षुरसघृत-दुग्धादिपरिग्रहः / चित्रैर्विविधैः, एभिः पुनःपूजा जिनबिम्बस्य स्नपनद्वारेण पुरतः स्थापनाद्वारेण यथारूढि स्यात्, उभयथाऽपि पूजात्वेनाविरुद्धत्वात्। अथ जीवाभिगमादिषु इक्षुरसादीना पूजात्वेनाप्रदर्शितत्वान्न युक्तं तेषामादिशब्दोपादानव्याख्यानम्, नैवम्, जीवाभिगमाद्यप्रदर्शितानामपि बलिदीपगोरोचनादीनामिहोक्तत्वेन तदुपदर्शितस्य पूजाविधानस्याव्यापकत्वात् / अत एव जीवाभिगमे नन्दापुष्करिणीजलेन स्नानोक्तावपि जम्बूद्वीपप्रज्ञप्त्यां नानाविधैर्जलैम॒त्तिकातुवरादिद्रव्यैश्च स्नपनमुक्तम् / अथ घृतादिभिः स्नपनं न युक्तं, विगन्धित्वात्तेषां को वा किमाह, यतो यानि गन्धादिभिः सुन्दराणि घृतादिद्रव्याणि शोभावहानि कर्तृद्रष्टणां भावोल्लासकारीणि, तैरेव च तद्विधेयम् / यतो वक्ष्यति-''जह रेहति तह सम्मं, कायय्वमणण्णचेतुण''ति।तथा सुरभिविलेपनं सुरभिश्रीखण्डाद्यनुलेपनं, वरकुसुमदामानि प्रधानपुष्पमालाःबलिरुपहारः, दीपकःप्रदीपकः, एतेषां द्वन्द्रोऽतस्तैः / चशब्दः समुचये। सिद्धार्थकाः सर्पषाः, दधि च प्रतीतम्, अक्षताश्च तन्दुलाः, दध्यक्षतं, गोरोचना गोपित्तजा; एषा द्वन्द्वोऽतस्तदादिभिरेतत्प्रभृतिभिः, आदिशब्दाच्छेषमङ्गल्यवस्तुपरिग्रहः / यथालाभं यथासंपत्ति / काञ्चनभौक्तिकरत्नादिदामकैश्च कनकमुक्ताफलमाणिक्यमालाभिश्च, विविधैर्बहुप्रकारैरिति गाथाद्यार्थः // 14-15 / / अथ कस्माद्विशिष्टपुष्पादिभिरेवं पूजा विधीयते इत्याशङ्याहपवरेहि साहणेहिं, पायं भावो वि जायए पवरो। ण य अण्णो उवओगो, एएसि सयाण लट्ठयरो॥१६॥ प्रवरैरुत्कृष्टः साधनैः पूजाकारणद्रव्यैः, प्रायो बाहुल्येन, कस्यापि क्लिष्ट कर्मणः प्रवरसाधनैरपि न जायते प्रवरभावस्तस्यान्यस्यातिशुभकर्मणः प्रवरद्रव्याणि विनैव प्रवरभावो जायते, इत्येदर्थसूचनाय प्रायोग्रहणम् / भावोऽप्यवसायोऽपि, न केवलं द्रव्याण्येव प्रवराणीत्यपिशब्दार्थः / जायते संपद्यते, प्रवरः प्रधानोऽशुभकर्मक्षयहेतुः / भवति च द्रव्यविशेषाद्भावविशेषः / यदाह-'गुणभूइढे दव्वम्मि जेण मित्तो हियत्तण भावे। इय वत्थूओइच्छति, ववहारो निजरं विउलं // 1 // " इत्येकं प्रवरद्रव्योपादाने कारणम् / अथ कारणान्तरमाह-न नैव,

Loading...

Page Navigation
1 ... 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388