Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1289
________________ चेइय १२६५-अभिधानराजेन्द्रः-भाग 3 चेइय तत्र शिल्पादिविधाने, प्रधानः प्रवरः,अपेक्षणीय इत्यर्थः। अंशोऽवयवः, किं रूपः, बहुदोषनिवारणात् अन्योऽन्यवधादिलक्षणप्रभूतदूषणनिषेधनेनैव, जगद्गुरोर्भुवननायकस्य; स्यात् आरम्भदोषेऽपि भगवतः शुभ एव योग इति हृदयम् / एनमेवार्थं दृष्टान्तेन समर्थयतिनागादिरक्षणे सादिभ्यः पुत्रादेरवने, यथा यद्वत्, कर्षणं पुत्रादेराकर्षणं तदेव तस्मिन् वा दोषो दूषणं शरीरघर्षणादिः कर्षणदोषः, तत्र कर्षणदोषेऽपि सति, आस्ता दोषाभावे, शुभयोगो मात्रादेः शोभन एव व्यापारः। इति गाथार्थः // 38|| नागादिरक्षणज्ञातमेवाहखड्डातमम्मि विसमे, इट्ठसुयं पेच्छिऊणं कीलंतं। तप्पच्चवायभीया, तदाणणट्ठा गया जणणी ||3|| दिट्ठो य तीऍ णागो, तं पति एंतो दुतो उखड्डाए। तो कड्डितो तगो तह, पीडाएँ विसुद्धभावाए 1140|| गतिटे श्वभ्रतट्याम्, किंविधे? विषमे निम्नोन्नतादिरूपे, इष्टसुतं वल्लभपुत्रम्, प्रेक्ष्य दृष्ट्वा, क्रीडन्ते रममाणम्, तत्प्रत्यपायभीता गर्तप्रपातरूपसुतानर्थचकिता, तदानयनार्थ पुत्रानयनार्थम्, गता प्रस्थिता, जननी मातेति / ततो दृष्टोऽवलोकितः, चः समुच्चये, तया जनन्या, नागो भुजगः, तं प्रति पुत्रं प्रति, (एंतो त्ति) आयन्नागच्छन्, द्रुतस्तु शीघ्रगतिरेव, (खड्डाए त्ति) गश्विभ्रात्, (तो ति) ततो नागदर्शनान्तरम्, (कडिओ त्ति) कृष्ट आकृष्टः, तकः पुत्रकः, तथा पीडायामपि आकर्षणजनितदेहसमुत्थवेदनायामपि संभवन्त्याम्, पीडासंभवेनाऽकर्षणीयतासूचनार्थोऽपिशब्दः / शुद्धभावया उपकारकरणाध्यवसायोपेतया, इति गाथाद्वयार्थः // 36 // 40 // दृष्टान्तार्थस्यैव निरवद्यतां दर्शयन्नाहएयं च एत्थ जुत्तं, इहराऽहिगदोसभावतोऽणत्थो। तप्परिहारेऽणत्थो, अत्थोचिय तत्तओ णेओ।।१।। एतच्च एतत्पुनः पीडयाऽपि पुत्राकर्षणम्, अत्र जननीज्ञाते, युक्तं संगतम्, इतरथा पुत्रस्याकृष्यमाणस्य पीडा भविष्यतीत्यनाकर्षणे, अधिकदोषभावतः आकर्षणजन्यपीडापेक्षया समर्गलतरस्य सर्पभक्षणजन्यपीडालक्षणस्य दूषणस्य सद्भा गावात्, अनर्थः सुतमरणलक्षणोऽपायः, तस्याऽनर्थस्य सुतमरणलक्षणस्य परिहारो वर्जनं तत्परिहारस्तत्र, योऽनों घर्षणेन पीडोत्पत्तिलक्षणः, सोऽर्थ एव गुण एव, तत्त्वतः परमार्थतो मरणलक्षणमहादोषरक्षणतः ज्ञेयो ज्ञातव्यः / अथवा दार्शन्तिकमर्थमाश्रित्यैवं गाथा व्याख्येया। तत्र 'एवं च' इति भगवतः शिल्पादिविधानम्, शेषं तथैव / इति गाथार्थः / / 41 / / ___ अथ यतनाद्वारं निगमयन्नाहएव निवित्तिपहाणा, विण्णेया भावओ अहिंसेयं / जयणावओ उ विहिणा, पूजादिगया वि एमेव // 42 // एवमुक्तेन प्रकारेणानन्तरोक्तदृष्टान्तलक्षणेन, निवृत्तिप्रधाना बहुतरसत्वघातनिवर्त्तनसारा, यतो विज्ञेया ज्ञातव्या, भावतः परमार्थतः, अहिंसा हिंसानिवृत्तिरिति, इयमिति प्रक्रमान्जिनभवनविषया प्रवृत्तिः, किं सर्वस्यैव? नेत्याह-यतनावत स्तु यतनावत एव, मान्यस्थ / तथा | विधिना भूमिशुद्ध्यादिलक्षणेन, नान्यथा / अथ कि जिनभवनविषयप्रवृत्तिरेव बहुतरसत्त्वघातनिवृत्तिप्रधानत्वादहिंसेति ज्ञेया, उताऽन्यापीत्याशक्याहपूजादिगताऽपि जिनाचनयात्राप्रभृतिविषयाऽपि, न केवलं जिनभवनविषया, प्रवृत्तिरिति गम्यम् / एवमेव एवं प्रकारैवाहिसैवेत्यर्थः / अथवा पूर्वार्द्धन भगवतः शिल्पादिषु प्रवृत्तेरहिंसात्वमुक्तम्, उत्तरार्द्धन तु जिनभवनप्रवृत्तेः, पूजादीन्यादिग्रहणेन जिनभवनग्रहणात्,- इति गाथार्थः / / 4 / / उक्तं यत्नाद्रारम् / उक्तश्च जिनभवनकारणविधिः। पञ्चा०७ विव० / षो०। पव०। अर्थ तदुत्तरविधिमाहणिप्फाइऊण एवं, जिणभवणं सुंदरं तहिं बिंवं / विहिकारियमह विहिणा, पइट्ठवेज्जा लहुं चेव / / 53|| निष्पाद्य निर्माप्य, एवमनन्तरोक्तविधिना, जिनभवनं प्रतीतम्, ततः सुन्दरं शोभनम्, तत्र जिनभवने, बिम्ब प्रतिमा, प्रक्रमाज्जिनस्यैव / विधिकारितं शास्त्रनीतिविधापितम् / अथानन्तरम्, विधिना शास्त्रनीत्या, प्रतिष्ठापयेल्लधु शीध्रमेव / यदुक्तम्-'"निष्पन्नस्यैवं खलु, जिनबिम्बस्योदिता प्रतिष्ठा तु / दशदिवसाभ्यन्तरतः, तद्भवनं स्फातिमद् भवति // 1 // " इति / चैवेत्यवधारणार्थः / इति गाथार्थः / / 43 / / अथ जिनभवनकारणविधेः फलोपदर्शनार्थमाह-- एयस्स फलं भणियं, इय आणाकारिणो उसडस्स। चित्तं सुहाणुबंधं, णिव्वाणंतं जिणिंदेहिं / / 4 / / एतस्य समस्तस्य जिनभवनविधानस्य, फलं प्रयोजनम्, भणितमुक्तम्, इत्येवमुक्तनीत्या, आज्ञाकारिणस्तु आप्तोपदेशेविधायिन एव, श्राद्धस्य श्रद्धावतः, श्रावकस्येत्यर्थः / चित्र विचित्रं देवमनुजजन्मसुतथाविधाभ्युदयरूपम्, शुभानुबन्धमविच्छिन्नकल्याणसन्तानम्, निर्वाणान्तं मुक्तिपर्यवसानम्, जिनेन्द्रःसर्वज्ञैः, इति गाथार्थः / / 44 / / एतदेव विभागेनाहजिणाबिंबपइट्ठावण-भावज्जियकम्मपिरणतिवसेणं। सुगतीइ पइट्ठावण-मणहं सदि अप्पणो चेव // 45 // जिनबिम्बप्रतिष्ठापनमहत्प्रतिमास्थापनं, तस्मिन् यो भावः स्याशयवृद्धिरूपः, "सासयवुड्डी वि इहं, भुवणगुरुजिणिंदगुणपरिण्णाए। तब्धिबठावणत्थं, सुद्धपवित्तीऍ नियमेणं / / 1 / / " इति प्रागुक्तगाथाभिहितः, तेन यदिर्जितमुपातं कर्म पुण्यानुबन्धिपुण्यरूपं, तस्य या परिणतिविपाकः, तस्या यो वशः सामर्थ्य , स तथा तेन जिनबिम्बप्रतिष्ठापनभावार्जितकर्मपरिणतिवशेन, किमित्याह-सुगतौ देवगत्यादौ, प्रतिष्ठापनं व्यवस्थापनम्, अनघमनवद्यं, तत्कालीनदोषाऽऽगामिदोषागोचरत्वात् / असकृत्सदा / कस्येत्याह-आत्मन एव स्वजीवस्यैव / भवति, इति गाथार्थः // 45 // तथातत्थ विय साहुदंसण-भावज्जियकम्मतो उगुणरागो। काले य साहुदंसण-महकमेणं गुणकरं तु // 46 // तत्रापि च स्वस्य सुगतिप्रतिष्ठापनेऽपि च पूर्व काले, गुणराग

Loading...

Page Navigation
1 ... 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388