Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 18
________________ आप्तपरीक्षा। कर्मत्वाभिसंबंधस्य च कर्मत्वोपलक्षितसमवायपदार्थस्य कथनात् । न चैवं सामान्यादिपदार्थः सिद्धयति । सामान्यादिषु सामान्यांतराभिसंबंधस्यासंभवादित्युक्तं प्राक् । एतेन पृथिवीत्वाद्यभिसंबंधात्पृथिवीत्यादिशब्दार्थस्य व्याख्यानं प्रत्याख्यातं । न हि पृथिवीत्वाभिसंबंधः पृथिवीशब्दवाच्यः । पृथिवीत्वोपलक्षितस्य समवायस्य पृथिवीत्वाभिसंबंधस्य पृथिवीशब्देनावचनात् । द्रव्यविशेषस्य पृथिवीशब्देनाभिधानाददोष इति चेत् । कःपुनरसौ वृक्षक्षपादिपृथिवीभेदव्यतिरिक्तः पृथिवीद्रव्यविशेषः । पृथिवीति पदेन संगृह्यमाण इति चेत् । कथं पुनः पृथिवीपदेनैकेनानेकार्थः संगृह्यते ? द्रव्यादिपदेनेवेति दुरवबोधं । कश्चायं संग्रहो नाम ? शब्दात्मकः प्रत्ययात्मकोऽर्थात्मको वा । न तावच्छब्दात्मकः शब्देनानंतानां द्रव्यादिभेदप्रभेदानां वा संग्रहीतुमशक्यत्वात् । तत्र संकेतस्य कर्तुमशक्यत्वादस्मदादेस्तदप्रत्यक्षत्वात् , क्रमेण युगपद्वा अननुमेयत्वाच्च । न चाप्रत्यक्षेऽननुमेये वा सर्वथाप्यप्रतिपन्नेऽर्थे संकेतः शक्यक्रियोऽस्ति । सर्वज्ञस्तत्र संकेतयितुं समर्थोऽपि नाऽसर्वज्ञान् संकेतं ग्राहयितुमलमिति कुतः संकेतः । न चासंकेतितेऽर्थे शब्दः प्रवर्तते यतः-संगृह्यतेऽनंताः पदार्थाः येन शब्देन स शब्दात्मा संग्रहः सिद्धयत्येव । मामच्छब्दात्मकः संग्रहः प्रत्ययात्मकस्त्वस्तु। संगृह्यते अर्था येन प्रत्ययेन स संग्रह इति व्याख्यानात्तेन तेषां संग्रहीतुं शक्यत्वादिति चेत् । कुतः पुनरसौ प्रत्ययः प्रत्यक्षाद्नुमानादागमाद्वा ? न तावदस्मदादिप्रत्यक्षात् । तस्यानंतद्रव्यादिभेदप्रभेदागोचरत्वात् । नापि योगिप्रत्यक्षात्। योगिन एव तत्संग्रहप्रसंगादस्मदादीनां तदयोगात् । न हि योगिप्रत्यक्षादस्मदादयः संप्रतियंति योगित्वप्रसंगात् । नाप्यनुमानादनंतद्रव्यादिभेदप्रभेदप्रतिबद्धानामेकशोऽनंतलिंगानामप्रतिपत्तेरस्मदाद्यप्रत्यक्षादनुमानांतरा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146