Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 67
________________ श्रीविद्यानंदिस्वामिविरचिता ६२ वात् । एतेन परमाणुसंयोगाभावाद्द्द्व्यणुकादिप्रक्रमेणावयविनोऽनुत्पत्तेस्तत्र परापरादिप्रत्ययापायात् इदमतः पूर्वेणेत्यादिप्रत्ययापायाच्च न कालो दिक् च व्यवतिष्ठत इत्युक्तं । तथा समवायासच्चे सकल समवायिनामभावान्न मनः परमाणवोऽपि संभाव्यंते इति सकलद्रव्यपदार्थ ह । नेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिरपीति सकलपदार्थव्याघातात् दुरुत्तरो वैशेषिकमतस्य व्याघातःस्यात् । तं परिजिहीर्षता युतसिद्धिः कुतश्चिद्वयवस्थापनीया । तत्र - युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे । विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥ यथैव हि कुंड बदरादिषु युतप्रत्यय उत्पद्यते कुंडादिभ्यो बदरादयो युता इति तथा विभुद्रव्यविशेषेषु प्रकृतेषु गुणगुणिषु क्रियाक्रियावत्सु सामान्य- तद्वत्सु विशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति युतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात्तत्र न युतप्रत्यय इति चेन्न । वाताऽऽतपादिषु युतप्रत्ययानुत्पत्तिप्रसंगात् । तेषां स्वावयवेषु भिन्नेषु देशेषु वृत्तेस्तत्र युतप्रत्यय इति चेत् किमेवं तंतुपटादिषु पटरूपादिषु च युतप्रत्ययः प्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेरविशेषात् तथा च न तेषामयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेन युतसिद्धिर्व्यवतिष्ठते । तदन्यवस्थानाच्च किं स्यादित्याह ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणं । हेतोर्विपक्षतस्तावद्यवच्छेदं न साधेयत् ॥ ४९ ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५० ॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146