Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा। .
सत्त्वं पंदार्थधर्मत्वेऽपीतिचेत् तर्हि सर्वत्रासदिति प्रत्ययस्याविशेषाद्भावपरतंत्रत्वेऽप्येकमसत्वमभ्युपगम्यतां । प्रागसत्पश्चादसदितरत्रेतरदसदत्यंतमसदिति प्रत्ययविशेषात् प्रागसत्त्वपश्चादसत्त्वेतरेतरासत्त्वात्यंतासत्वभेदसिद्धेनैकमसत्वमिति चेत् नन्वेवं विनाशात्पूर्व सत्वं प्राक्सत्वं, स्वरूपलाभादुत्तरं सत्वं पश्चात्सत्वं, समानजातीययोः केनचिद्रूपेणेतरेतरत्रसत्त्वमितरेतरसत्त्वं, कालत्रयेऽप्यनाद्यनंतस्य सत्त्वमत्यंतसत्त्वमिति सत्त्वभेदः किं नानुमन्यते सत्प्रत्ययस्यापि प्राक्कालादितया विशेषसिद्धेबर्बाधकाभावात् । यथाचासत्वस्य सर्वथैकत्वे क्वचित्कार्योत्पत्तौ प्रागभावविनाशे सर्वत्राभावविनाशप्रसंगात् न किंचित्प्रागसदिति सर्वकार्यमनादि स्यात् न किंचित्पश्चादसदिति तदनंतं स्यात् न क्वचित्किंचिदसदिति सर्व सर्वात्मकं स्यान्न क्वचिदत्यंतमसदिति सर्व सर्वत्र सर्वदा प्रसज्यतेति बाधकमपि तथा सत्त्वैकत्वे समानमुपलभामहे कस्यचित्प्रध्वंसे सत्त्वाभावे सर्वत्र सत्त्वाभावप्रसंगात् न किंचित्कुतश्चित्प्राक् सत् पश्चात्सद्वा नापीतरत्रेतरत्सत् स्यात् अत्यंतसद्वेति सर्वशन्यतापत्तिर्दुःशक्या परिहतु । तां परिजिहीर्षता सत्वस्य भेदोऽभ्युपगंतव्य इति नैका सत्ता सर्वथासिध्येदसत्तावत्तदनंत पर्यायतोपपत्तेः । स्यान्मतिरेषा ते कस्यचित्कार्यस्य प्रध्वंसेऽपि न सत्तायाः प्रध्वंसस्तस्या नित्यत्वात् पदार्थातरेषु सत्प्रत्ययहेतुत्वात् प्राक्कालादिविशेषणभेदेऽप्यभिन्नत्वात् सर्वथा शून्यतां परिहरतोऽपि सत्तानंतपर्यायतानुपपत्तिरिति सापि न साधीयसी, कस्यचित्कार्यस्योत्पादेऽपि प्रागभावस्याभावानुपपत्तिप्रसंगात् तस्य नित्यत्वात् पदार्थातराणामुत्पत्तेः पूर्व प्रागभावस्य स्वप्रत्ययहेतोः सद्भावसिद्धेः समुत्पन्नैककार्यविशेषणतया विनाशव्यवहारेऽपि प्रागभावस्याविनाशिनो नानानुत्पन्नकार्यापेक्षया विशेषणभेदेऽपि भेदासंभवादेकत्वाविरोधात् । नद्युत्पत्तेः पूर्व घटस्य प्रागभावः

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146