Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 137
________________ १३२ श्रीविद्यानंदिस्वामिविरचिता wra......... नोऽपि प्रधानकृतकमफलानुभवनानुषगात् । मुक्तस्य प्रधानसंसर्गाभावान्नतत्फलानुभवनमितिचेत्तर्हि संसारिणः प्रधानसंसर्गाद्वंधफलानुभवनं सिद्धं तथा च पुरुषस्यैव बंधः सिद्धः प्रधानेन संसर्गस्य बंधफलानुभवननिमित्तस्य बंधरूपत्वाढूधस्यैव संसर्ग इति नामकरणात् स चात्मनः प्रधानसंसर्गःकारणमंतरेण न संभवतीति पुरुषस्य मिथ्यादर्शनादिपरिणामस्तत्कारणमिति प्रत्येतव्यं । प्रधानपरिणामस्यैव तत्संसर्गकारणत्वे मुक्तात्मनोऽपि तत्संसर्गकारणत्वप्रसक्तेरिति मिथ्यादर्शनादीनि भावकाणि पुरुषपरिणामात्मकान्येव पुरुषस्य परिणामित्वोपपत्तेस्तस्यापरिणामित्वे वस्तुत्वविरोधानिरन्वयविनश्वरक्षणिकचित्तवत्। द्रव्यकर्माणि तु पुद्गलपरिणामात्मकान्येव प्रधानस्य पुद्गलपर्यायत्वात्पुद्गलस्यैव प्रधानमिति नाम करणात् । नच प्रधानस्य पुद्गलपरिणामात्मकत्वमसिद्धं पृथिव्यादिपरिणामात्मकत्वात्पुरुषस्यापुद्गलद्रव्यस्यतद्नुपलब्धिबुद्धयहंकारादिपरिणामात्मकत्वात् । नहि प्रधाने बुद्धयादिपरिणामो घटते, तथाहि-न प्रधानं बुद्धयादिपरिणामात्मकं पृथिव्यादिपरिणामात्मकत्वाद्यत्तु बुद्धयादिपरिणामात्मकं तन्न पृथिव्यादि परिणामात्मकं दृष्टं यथा पुरुषद्रव्यं तथा च प्रधानं तस्मान्न बुद्ध्यादिपरिणामात्मकं । पुरुषस्य बुद्धयादिपरिणामात्मकत्वासिद्धर्न वैधर्म्यदृष्टांततेति चेन्न तस्य तत्साधनात्तथाहि-बुद्धयादिपरिणामात्मकः पुरुषश्चेतनत्वाद्यस्तु न बुद्धयादिपरिणामात्मकः स न चेतनोदृष्टो यथा घटादिश्चेतनश्च पुरुषस्तस्माद्बुद्धयादिपरिणामात्मक इति सम्यगनुमानात्, तथाकाशपरिणामात्मकत्वमपि प्रधानस्य न घटते मूर्तिमत्पृथिव्यादिपरिणामात्मकस्यामूर्ताकाशपरिणामात्मकत्वविरोधाद्धटादिवत् । शब्दादि तन्मात्राणां तु पुद्गलद्रव्यपरिणामात्मकत्वमेव कर्मेंद्रियद्रव्यमनोवत् भावमनोबुद्धींद्रियाणां तु पुरुषपरिणामात्मकत्वसाधनान्न जीवपुद्गलद्रत्यव्यातिरिक्तं द्रव्यांतरमन्यत्र

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146