Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१३०
श्रीविद्यानंदिस्वामिविरचिता
~~~~~
व्यभिचारशंका निरस्ता तेषामभन्येषु मिथ्यादृष्टिषु च परमप्रकर्षसिद्धेस्तत्प्रकर्षो हि परमोऽनंतानुबंधित्वलक्षणस्स च तत्र प्रसिद्धः क्रोधादीनामनंतानुबंधिनां तत्र सद्भावात् । ज्ञानहानिप्रकर्षण व्यभिचार इति चेन्न तस्यापि क्षायोपशमिकस्य हीयमानतया प्रकृष्यमाणस्य प्रसिद्धस्य केवलिनि परमप्रकर्षसिद्धेः क्षायिकस्य तु हानेरेवानुपलब्धेः कुतस्तत्प्रकर्षों येन व्यभिचारः शक्यते । के पुनः कर्मभूभृतो एषां विपक्षः परमप्रकर्षभाक् साध्यत इत्यारेकायामिदमाह
कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥ ११२॥ भावकर्माणि चैतन्यविवर्त्तात्मानि भांति नुः । क्रोधादीनि स्ववेद्यानि कथंचिच्चिदभेदतः ॥ ११३॥ तत्कंधराशयः प्रोक्ता भूभृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सतो नात्यंतसंक्षयः ॥ ११४ ॥
जीवं परतंत्रीकुर्वति स परतंत्रीक्रियते वा यैस्तानिकर्माणि, जीवेन वा मिथ्यादर्शनादिपरिणामैः क्रियंत इति कर्माणि तानि द्विप्रकाराण द्रव्यकर्माणि भावकर्माणि च तत्र द्रव्यकर्माणि ज्ञानावरणादीन्यष्टौ मूलप्रकृतिभेदात्तथाऽष्टचत्वारिंशदुत्तरशतमुत्तरप्रकृतिविकल्पात्तथोत्तरोत्तरप्रकृतिभेदाद नेकप्रकाराणि तानि च पुद्गलपरिणामात्मकानि जीवस्य पारतंत्र्यनिमित्तत्वान्निगडादिवत् । क्रोधादिभिर्व्यभिचार इति चेन्न तेषां जीवपरिणामानां पारतंत्र्यस्वरूपात्, पारतंत्र्यं हि जीवस्य क्रोधादिपरिणामो न पुनः पारतंत्र्यनिमित्तं । ननु च ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामेवानंतज्ञानदर्शनसुखवीर्य्यलक्षणजीवस्वरूपघातित्वात्पारतंत्र्यनिमित्तत्वं न पुनर्नामगोत्रसद्वेद्यायुषां, तेषामात्मस्वरूपाघातित्वात्पारतंत्र्यनिमित्तत्वासिद्धेरिति

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146