Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा ।
१३१
पक्षाव्याप कोहेतुर्वनस्पतिचैतन्ये स्वापवदिति चेन्न तेषामपि जीवस्वरूपसिद्धत्वप्रतिबंधित्वात्पारतंत्र्यनिमित्तत्वोपपत्तेः । कथमेवं तेषामघातिकर्मत्वमिति - चेज्जीवन्मुक्तिलक्षणपरमाहत्य लक्ष्मीघातिकत्वाभावादिति ब्रूमहे ततो न पक्षाव्यापक हेतुः, नाप्यन्यथानुपपत्तिनियमनिश्चयविकलः पुद्गल परिणामात्मकसाध्यमंतरेण पारतंत्र्यनिमित्तत्वस्य साधनस्यानुपपत्तिनियमनिर्णयात्तानि च स्वकार्येण यथानामप्रतीयमानेनानुमीयंते, दृष्टकारणव्यभिचाराददृष्टकारणसिद्धेः । भावकर्माणि पुनश्चैतन्यपरिणामात्मकानि क्रोधाद्यात्मपरिणामानां क्रोधादिकर्मोदयनिमित्तानामौदयिकत्वेऽपि कथंचिदात्मनोऽनथांतरत्वाच्चिद्रूपत्वाविरोधात् ज्ञानरूपत्वं तु तेषां विप्रतिषिद्धं ज्ञानस्यौदयिकत्वाभावात् । ननुधर्माधर्मयोः कर्मरूपयोरात्मगुणत्वान्नौदयिकत्वं नापि पुद्गलपरिणामात्मकत्वमिति केचित्तेपि न युक्तिवादिनः कर्मणामात्मगुणत्वे तत्पारतंत्र्यनिमित्तत्वायोगात्सर्वदाऽऽत्मनो बंधानुपपत्तेर्मुक्तिप्रसंगात् । न हि यो यस्य गुणः स तस्य पारतंत्र्यनिमित्तं यथा पृथिव्यादेः रूपादिः, आत्मगुणश्च धर्माधर्मसंज्ञकं कर्म परैरभ्युपगम्यत इति न तदात्मनः पारतंत्र्यनिमित्तं स्यात् तत एव च ' प्रधानविवर्त्तः शुक्लं कृष्णं च कर्म, इत्यपि मिथ्या तस्यात्मपारतंत्र्यनिमित्तत्वाभावे कर्मत्वायोगादन्यथातिप्रसंगात् । प्रधानपारतंत्र्यनिमित्तत्वात्तस्य कर्मत्वमिति चेन्न प्रधानस्य तेन बंधोपगमे मोक्षोपगमे च पुरुष कल्पना वैयर्थ्यात् । बंधमोक्षफलानुभवनस्य पुरुषे प्रतिष्ठानान पुरुष कल्पनावैयर्थ्यामितिचेत्तदेतदसंबद्धाभिधानं प्रधानस्य बंधमोक्षौ, पुरुषस्तत्फलमनुभवतीति कृतनाशाकृताभ्यागमप्रसंगात्, प्रधानेन हि कृतौ बंधमोक्षौ न च तस्य तत्फलानुभवनामिति कृतनाशः पुरुषेण तु तौ न कृतौ तत्फलानुभवनं च तस्येत्यकृताभ्यागमः कथं परिहर्तुं शक्यः । पुरुषस्य चेतनत्वात्फलानुभवनं, न प्रधानस्याचेतनत्वादितिचेन्न मुक्तात्म

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146