Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
१२९
यादियोगनिरोधेऽप्येवं वक्तव्यं तत्राप्युत्तरयोगनिरोधे पूर्वयोगनिरोधस्यापश्यंभावात् काययोगनिरोधे हि तत्पूर्ववाङ्मानसनिरोधः सिद्ध एव वाग्योगनिरोधे च मनोयोगनिरोधः पूर्वयोगनिरोधे तत्तरयोगनिरोधो भाज्यत इति सकलयोगनिरोधलक्षणया परमगुप्त्या सकलास्रवनिरोधः परमसंवरःसिद्धः । समित्यादिभिः पुनरपरः संवरो देशतएवात्रवनिरोक सद्भावात्तत्र हि यो यदास्रवप्रतिपक्षः स तस्य संवर इति यथायोग्यमागमाविरोधेनाभिधानीयं कर्मागमनकारणस्यास्रवस्य निरोधे कर्मभूभृतामागामिनामनुत्पत्तिसिद्धेरन्यथा तेषामहेतुकत्वापत्तेः सर्वत्य संसारिणः सर्वकर्मागमनप्रसक्तेश्च ततः संवरो विपक्षः कर्मभूभृतामागामिनामिति स्थितं । संचितानां तु निर्जरा विपक्षा सा च द्विविधानुपक्रमोपक्रमिकी च । तत्र पूर्वा यथाकालं संसारिणः स्यात्, उपक्रमकी तु तपसा द्वादशविधेन साध्यते संवरवत्, यथैव हि तपसा संचितानां कर्मभूभृतां निर्जरा विधीयते तथाऽऽगामिनां संवरोपीति संचितानां कर्मणां निर्जरा विपक्षा प्रतिपाद्यते । अथैतस्य कर्मणां विपक्षस्य परमप्रकर्षः कुतः प्रसिद्धो यतस्तेषामात्यंतिकः क्षयः स्यादित्याह
तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धेरुष्णप्रकर्षवत् ॥ १११॥
यस्य तारतम्यप्रकर्षस्तस्य क्वचित्परमः प्रकर्षः सिद्धयति यथोष्णस्य, तारतम्यप्रकर्षश्च कर्मणां विपक्षस्य संवरनिर्जरालक्षणस्यासंयतसम्यग्दृष्टयादिगुणस्थानविशेषेषु प्रमाणतो निश्चीयते तस्मात्परमात्मनि तस्य परमः प्रकर्षः सिद्धयतीत्यवगम्यते । दुःखादिप्रकर्षेण न्यभिचार इति चेन्न दुःखस्य सप्तमनरकभूमौ नारकाणां परमप्रकर्षसिद्धेः सर्वार्थसिद्धौ देवानां सांसारिकसुखपरमप्रकर्षवत् । एतेन क्रोधमानमायालोमानां तारतम्येन

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146