Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
धर्माधर्माकाशकालद्रव्येभ्य इति न प्रधानं नाम तत्त्वांतरमस्ति सत्त्वरजस्तमसामपि द्रव्यभावरूपाणां पुद्गलद्रव्यपुरुषद्रव्यपरिणामत्वोपपत्तेरन्यथा तदघटनादिति द्रव्यकर्माणि पुद्गलात्मकान्येव सिद्धानि भावकर्मणां जीवपरिणामत्वसिद्धेस्तानि च द्रव्यकर्माणि पुद्गलस्कंधरूपाणि परमाणूनां कर्मत्वानुपपत्तेस्तेषां जीवस्वरूपप्रतिबंधकत्वाभावादिति कर्मस्कंधसिद्धिस्ते च कर्मस्कंधा बहव इति कर्मस्कंधराशयः सिद्धास्ते च भूभृत इव मूभत इति व्यपदिश्यते समाधिवचनात्तेषां कर्मभूभृतां भेदो विश्लेषणमेव न पुनरत्यंतसंक्षयः सतो द्रव्यस्यात्यंतविनाशानुपपत्तेः प्रसिद्धत्वात्तत एव कर्मभूभृतां भेत्ता भगवान् प्रोक्तो न पुनर्विनाशयितेति निरवद्यमिदं भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्त्वानामिति विशेषणद्वितयं मोक्षमार्गस्य नेतारमितिविशेषणवत् । क:पुनर्मोक्ष इत्याह ।
स्वात्मलाभस्ततोमोक्षः कृत्स्नकर्मक्षयान्मतः। निर्जरासंवराभ्यां तु सर्वसद्वादिनामिह ॥ ११५॥
यत एवं ततः स्वात्मलाभो जीवस्य मोक्षः कृत्स्नानां कर्मणामागामिनां संचितानां च संवरनिर्जराभ्यां क्षयाद्विश्लेषात्सर्वसद्वादिनां मत इति सर्वेषामास्तिकानां मोक्षस्वरूपे विवादाभावं दर्शयति तेषामात्मस्वरूपे कर्मस्वरूपे च विवादात्स च प्रागेव निरस्तोऽनंतज्ञानादिचतुष्टयस्य सिद्धत्वस्य चात्मनः स्वरूपस्य प्रमाणसिद्धत्वान्नह्यचेतनत्वमात्मनः स्वरूपं तस्य ज्ञानसमवायित्वविरोधादाकाशादिवत्तत्कारणादृष्टविशेषासंभवाच्च तद्वत्तस्यांतःकरणसंयोगस्यापि दुर्घटत्वात् प्रतीयते च ज्ञानमात्मनि ततस्तस्य नाचैतन्यं स्वरूपं । ज्ञानस्य चैतन्यस्यानित्यत्वात्कथमात्मनो नित्यस्य तत्स्वरूपमितिचेन्नानंतस्य ज्ञानस्यानादेश्वानित्यत्वैकांताभावात् । ज्ञानस्य नित्यत्वे न कदाचिदज्ञानमात्मनः स्यादितिचेन्न तदावरणोदये तदविरो

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146