Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 141
________________ १३६ श्रीविद्यानंदिस्वामिविरचिता स्तच्च न धर्मि, सामान्यरूपत्वात्साधनधर्मत्वेन प्रतिपादनादित्यपरः सोऽप्यनुकूलमाचरति साधनधर्मस्य धर्मिरूपत्वाभावे प्रतिज्ञार्थंकदेशत्वनिराकरणात् विशेष धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतो न दोष इति परैः स्वयमभिधानात्, प्रयत्नानंतरीयकः क्षणिकः शब्दः प्रयत्नानंतरीयकत्वादित्यादिवत् । कः पुनरत्र विशेषो धर्मी ? मोक्षमार्ग इति ब्रूमः कुतोऽस्यविशेषः ? स्वास्थ्यमार्गात् नह्यत्र मार्गसामान्यं धर्मि किं तर्हि मोक्षविशेषणो मार्गविशेषः। कथमेवं मोक्षमार्गत्वं सामान्य ? मोक्षमार्गाणामनेकव्यक्तिनिष्ठत्वाक्वचिन्मानसशारीरव्याधिविशेषाणां मोक्षमार्गः क्वचिद्रव्यभावसकल. कर्मणामिति मोक्षमार्गत्वं सामान्यं शब्दत्ववत् । शब्दत्वं हि यथा शब्दविशेषे वर्ण पदवाक्यात्मके विवादास्पदे तथा ततविततघनसुषिरशब्देऽपि श्रावणज्ञानजननसमर्थतया ( शब्दव्यपदेशं नातिकामति ) इति शब्दविशेष धमिणं कृत्वा शब्दत्वं सामान्यं हेतुं ब्रुबाणो न कंचिद्दोषमास्ति नुते । तथानन्वयदोषस्याप्यभावात् तद्वन्मोक्षमार्गविशेषं धर्मिणमभिधाय मोक्षमार्गत्वं सामान्यं साधनमभिदधानो नोपालब्धव्यः । तथा साध्यधर्मोऽपि प्रतिज्ञार्थंकदेशो हेतुत्वेनोपादीयमानो न प्रतिज्ञार्थंकदेशत्वेनासिद्धस्तस्य धर्मिणा व्यभिचारात्प्रतिज्ञार्थंकदेशस्यापि धर्मिणोऽसिद्धत्वानुपपत्तेः किं तर्हि साध्यत्वेनासिद्ध इति न प्रतिज्ञार्थंकदेशो नामासिद्धो हेतुरस्ति विपक्षे बाधकप्रमाणाभावात् । अन्यथानुपपन्नत्वनियमानिश्चयादगमकोऽयं हेतुरितिचेन्न ज्ञानमात्रादौ विपक्षे मोक्षमार्गत्वस्य हेतोः प्रमाणबाधितत्वात् । सम्यग्दर्शनादित्रयात्मकत्वे हि मोक्षमार्गस्य साध्ये ज्ञानमात्रादिर्विपक्षस्तत्र च न मोक्षमार्गत्वं सिद्धं बाधकसद्भावात्तथाहिज्ञानमात्रं न कर्ममहाव्याधिमोक्षमार्गः श्रद्धानाचरणशन्यत्वात् शारीरमानसव्याधिविमोक्षकारणरसायनज्ञानमात्रवत् । नाप्याचरणमात्रं तत्कारणं

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146