Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१३७
आप्तपरीक्षा। श्रद्धानज्ञानशन्यत्वात् रसायनाचरणमात्रवत् । नापि ज्ञानवैराग्ये तदुपायस्तत्वश्रद्धानविधुरत्वाद्रसायनज्ञानवैराग्यमात्रवदिति सिद्धोऽन्यथानुपपत्तिनियमः साधानस्य, ततो मोक्षमार्गस्य सम्यग्दर्शनादित्रयात्मकत्वसिद्धिः । ननु परंपरया मोक्षमार्गस्य सम्यग्दर्शनमात्रात्मकत्वसिद्धेळभिचारी हेतुरितिचेन्न साक्षादितिविशेषणात्साक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति क्षीणकषायचरमक्षणवर्तिपरमाहत्यलक्षणजीवन्मोक्षमार्ग इवेति सुप्रतीतं तथैवायोगकेवलिचरमक्षणवर्त्तिकृत्स्नकर्मक्षयलक्षणमोक्षमार्गः साक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति तपोविशेषस्य परमशुक्लध्यानलक्षणस्य सम्यक्चारित्रेऽतर्भावादितिविस्तरतस्तत्वार्थालंकारे युक्त्यागमाविरोधेन परीक्षितमवबोद्धव्यं । तदेवंविधस्य मोक्षमार्गस्य प्रणेता विश्वतत्त्वज्ञः साक्षात्परंपरया वेति शंकायामिदमाह ।
प्रणेता मोक्षमार्गस्याबाध्यमानस्य सर्वथा । साक्षाद्यएव स ज्ञेयो विश्वतत्वज्ञताश्रयः॥ ११८ ॥
न हि परंपरया मोक्षमार्गस्य प्रणेता गुरुपूर्वक्रमाविच्छेदादधिगततत्त्वार्थशास्त्रार्थोऽप्यस्मदादिभिः साक्षाद्विश्वतत्त्वज्ञतायाः समाश्रयः साध्यते प्रतीतिविरोधात्किं तर्हि साक्षान्मोक्षमार्गस्य सकलबाधकप्रमाणरहितस्य यःप्रणेता स एव विश्वतत्त्वज्ञताश्रयस्तत्वार्थसूत्रकारैरुमास्वामिप्रभृतिभिः प्रतिपाद्यते भगवद्भिः साक्षात्सर्वतत्वज्ञतामन्तरेण साक्षादबाधितमोक्षमार्गस्य प्रणयनानुपपत्तेरिति वंदे तद्गुणलब्धय इत्येतद्व्याख्यातुमनाः प्राह -
वीतनिःशेषदोषोऽतः प्रवंद्योऽर्हन् गुणांबुधिः। तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ ११९ ॥
यतश्च यः साक्षान्मोक्षमार्गस्याबाधितस्य प्रणेता स एव विश्वतत्वानां ज्ञाता कर्मभूभृतां भेत्ताऽतएवार्हन् प्रवंधो मुनींद्रेस्तस्य वीतनिःशेषाज्ञानादिदोषत्वात्तस्यानंतज्ञानादिगुणांबुधित्वाच्च यो हि गुणांबुधिः स एव

Page Navigation
1 ... 140 141 142 143 144 145 146