Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
१२७
युज्यते तस्याः कुतश्चित्प्रमाणादसंभवस्य समर्थनात्तदेवममावप्रमाणस्यापि सर्वज्ञवाधकस्य सदुपलंभकप्रमाणपंचकवदसंभवाद्देशांतरकालांतरपुरुषांतरापेक्षयाऽपि तद्वाधकशंकानवकाशासिद्धः सुनिर्णीतासंभवद्वाधकप्रमाणः सर्वज्ञः स्वसुखादिवत्सर्वत्र वस्तुसिद्धौ सुनिर्णीतासंभवद्वाधकप्रमाणत्वमंतरेणावासनिबंधनस्य कस्यचिदभावात् । स च विश्वतत्वानां ज्ञाताऽर्हन्नेव परमेश्वरादेविश्वतत्वज्ञतानिराकरणादेवावसीयते । स एव कर्मभूभृतां भेत्ता निश्चीयतेऽन्यथा तस्य विश्वतत्वज्ञतानुपपत्तेः । स्यादाकृतं कर्मणां कार्यकारणसंतानेन प्रर्वतमानानामनादित्वाद्विनाशहेतोरभावात्कथं कर्मभूभृतां भेत्ता विश्वतत्त्वज्ञोऽपि कश्चिन्द्यवस्थाप्यते इति तदप्यसत् , विपक्षप्रकर्षपर्यंतगमनात्कर्मणां संतानरूपतयानादित्वेऽपि प्रक्षयप्रसिद्धेः। नानादिसंततिरपि शीतस्पर्शः क्वचिद्विपक्षस्योष्णस्पर्शस्य प्रकर्षपर्यंतगमनान्निर्मूलं प्रलयमुपव्रजन्नोपलब्धो नापि कार्यकारणरूपतया बीजांकुरसंतानो वानादिरपि प्रतिपक्षभूतदहनान्निर्दग्धबीजो निर्दग्धांकुरो वा न प्रतीयत इति वक्तुं शक्यं, यतः कर्मभूभृतां संतानोऽनादिरपि क्वचित्प्रतिपक्षसात्मीभावान्न प्रक्षीयते । ततो यथा शीतस्योष्णस्पर्शप्रकर्षविशेषेण कश्चिद्भत्ता तथा कर्मभूभृतां तद्विपक्षप्रकर्षविशेषेण भेत्ता भगवान् विश्वतत्वज्ञ इति सुनिश्चितं नश्चेतः । कः पुनः कर्मभूभृतां विपक्ष इति चेदुच्यते । तेषामागामिनां तावद्विपक्षः संवरो मतः तपसा संचितानां तु निर्जरा कर्मभूभृतां ॥ ११०॥ द्विविधा हि कर्मभूभृतः केचिदागामिनः परे पूर्वभवसंतानसंचितास्तत्रागामिनां कर्मभूभृतां विपक्षस्तावत्संवरस्तस्मिन्सति तेषामनुत्पत्तेः । संवरो हि कर्मणामाश्रवनिरोधः, सचाश्रवो मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पंचविधस्तस्मिन् सति कर्मणामास्त्रवात् कर्मागमनहेतोरास्रव इति

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146