Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 131
________________ श्राविद्यानंदिस्वामिविरचिता षेध्यः सर्वज्ञः स्मर्त्तव्य एवान्याथा तत्र नास्तिताज्ञानस्य मानसस्यानुपपत्तेर्नच निषेध्याधारत्रिकालजगत्रयसद्भावग्रहणं कुतश्चित्प्रमाणान्मीमांसकस्यास्ति । नापि प्रतिषेध्यसर्वज्ञस्य स्मरणं तस्य प्रागननुभूतत्वात्पूर्व तदनुभवे वा क्वचित्सर्वत्र सर्वदा सर्वज्ञाभावसाधनविरोधात् । ननु च पराभ्युपगमात्सर्वज्ञः सिद्धस्तदाधारभूतं च त्रिकालं भुवनत्रयं सिद्धं, तत्र श्रुतसर्वज्ञस्मरणनिमित्तं तदाधारवस्तुग्रहणनिमित्तं च सर्वज्ञे नास्तिताज्ञानं मानसमक्षानपेक्षं युक्तमेवेतिचेन्न, स्वेष्टवाधनप्रसंगात् । पराभ्युपगमस्य हि प्रमाणसिद्धत्वे तेन सिद्धं सर्वज्ञ प्रतिषेधतोऽभावप्रमाणस्य तद्वाधनप्रसंगात् ! तस्याप्रमाणत्वे न ततो निषेध्याधारवस्तुग्रहणं निषेध्यसर्वज्ञस्मरणं वा तथ्यं स्यात्तदभावे तत्र सर्वज्ञेऽभावप्रमाणं न प्रादुर्भवेदिति तदेव स्वेष्टवाधनं दुर्वारमायातं । नन्वेवं मिथ्यकांतस्य प्रतिषेधः स्याद्वादिभिः कथं विधीयते तस्य क्वचित्कथंचित्कदाचिदनुभवाभावे स्मरणासंभवात् तस्याननुस्मर्यमाणस्य प्रतिषेधायोगात्क्वचित्कदाचित्तदनुभवे वा सर्वथा तत्प्रतिषेधाविरोधात् पराभ्युपगमात्प्रसिद्धस्य मिथ्र्यकांतस्य स्मर्यमाणस्य प्रतिषेधेऽपि स पराभ्युगमः प्रमाणप्रमाणं वा ? यदि प्रमाणं तदा तेनैव मिथ्र्यकांतस्याभावसाधनाय प्रर्वतमानं प्रमाण बाध्यते इति स्याद्वादिनामपिस्वष्टबाधन, यदि पुनरप्रमाणं पराभ्युपगमस्तदापि ततः सिद्धस्य मिथ्यकांतस्य स्मर्यमाणस्य नास्तीतिज्ञानं प्रजायमानं मिथ्यैव स्यादिति तदेव स्वेष्टवाधनं परेषामिवेति न मंतव्यं, स्याद्वादिनामनेकांतसिद्धरेव मिथ्र्यकांतनिषेधनस्य व्यवस्थानात् । प्रमाणतः प्रसिद्ध हि बहिरंतर्वा वस्तुन्यनेकांतात्मनि तत्राध्यारोप्यमाणस्य मिथ्यैकांतस्य दर्शनमोहोदयाकुलितचेतसां बुद्धौ विपरीताभिनिवेशस्य प्रतिभासमानस्य प्रतिषेधः क्रियते प्रतिषेधव्यवहारो वा प्रवर्तते विप्रतिपन्नप्रत्यायनाय सन्नयोपन्यासात् । न चैवमसर्वज्ञजगत्सिद्धेरेव सर्वज्ञप्रतिषेधो

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146