Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१२४
श्रीविद्यानंदिस्वामिविरचिता
वहारो निखिलजनप्रसिद्धोऽपि न भवेत् । नचैदंयुगीनशास्त्रव्याख्याता कश्चित्प्रक्षीणाशेषरागद्वेषः सर्वज्ञः प्रतीयते इति नियतविषयशास्त्रार्थपरिज्ञानं तद्विषयरागद्वेषरहितत्वं च यथार्थव्याख्याननिबंधनं तद्वयाख्यातुरभ्युपगंतव्यं तच्च वेदार्थव्याचक्षाणस्यापि ब्रह्मप्रजापतिमनुप्रमुखनैमिन्यादेर्विद्यते एव तस्य वेदार्थविषयाज्ञानरागद्वेषविकलत्वादन्यथा तद्व्याख्यानस्य शिष्टपरम्परया परिग्रहविरोधात्ततो वेदस्य व्याख्याता तदर्थज्ञ एव न पुनः सर्वज्ञः तद्विषयरागद्वेषरहित एव न पुनः सकलविषयरागद्वेषशून्यो यतः सर्वज्ञा वीतरागश्च पुरुषविशेषः क्षम्यते” इति केचित्तेऽपि न मीमांसका, सकलसमयव्याख्यानस्य यथार्थभावानुषंगात् । स्यान्मतं समयांतराणां व्याख्यानं न यथार्थ बाधकप्रमाणसद्भावात् प्रसिद्धमिथ्योपदेशव्याख्यानवत् इति तदपि न विचारक्षम, वेदव्याख्यानस्यापि बाधकसद्भावात् । यथैव हि सुगतकपिलादिसमयांतराणां परस्परविरुद्धार्थाभिधायित्वं बाधकं तथा भावनानियोगविधिधात्वर्थादिवेदवाक्यार्थव्याख्यानानामपि तत्प्रसिद्धमेव । न चैतेषां मध्ये भावनामात्रस्य नियोगमात्रस्य वा वेदवाक्यार्थस्यान्ययोगव्यवच्छेदेन निर्णयःकर्तुं शक्यते सर्वथा विशेषाभावात् तत्राक्षेपसमाधानानां समानत्वादिति देवागमालंकृतौ तत्त्वार्थालंकारे विद्यानन्दमहोदये च विस्तरतो निर्णीतं प्रतिपत्तव्यं ततो न केनचित्पुरुषेण व्याख्याताद्वेदाद्धर्माधुपदेशः समवतिष्ठते । नाप्यव्याख्यातात्, तस्य स्वयं स्वार्थप्रतिपादकत्वेन तदर्थविप्रतिपत्यभावप्रसगात् । दृश्यते च तदर्थविप्रतिपत्तिर्वेदवादिनामिति न वेदाद्धर्माद्युपदेशस्य संभवः पुरुषविशेषादेव सर्वज्ञवीतरागात्तस्य संभवात्ततो न धर्माद्युपदेशासंभवः पुरुषविशेषस्य सिद्धेः यः सर्वज्ञरहितं जगत्साधयेदिति कुतोऽर्थापत्तिः सर्वज्ञस्य बाधिका । यदि पुनरागमः सर्वज्ञस्य बाधकः तदाप्यसावपौरुषेयः
१ भाट्टाः । २ प्राभाकराः । ३ वेदान्तिनः ।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146