Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 130
________________ आप्तपरीक्षा। १२५ पौरुषेयो वा ? न तावदपौरुषेयस्तस्य कार्यादर्थादन्यत्र परैः प्रामाण्यानष्टरन्यथानिष्टसिद्धिप्रसंगात्। नापि पौरुषेयस्तस्यासर्वज्ञपुरुषप्रणीतस्य प्रामाण्यानुपपत्तेः सर्वज्ञप्रणीतस्य तु परेषामसिद्धेरन्यथा सर्वज्ञसिद्धेः ततस्तदभावायोगादिति न प्रभाकरमतानुसारिणां प्रत्यक्षादिप्रमाणानामन्यतममपि प्रमाणं सर्वज्ञाभावसाधनायालं यतः सर्वज्ञबाधकमभिधीयते । भट्टमतानुसारिणामपि सर्वज्ञस्याभावसाधनमभावप्रमाणं नोपपद्यत एव ताद्ध सदुपलंभप्रमाणपंचकनिवृत्तिरूपं साच सर्वज्ञविषयसदुपलंभकप्रमाणपंचकनिवृत्तिरात्मनोऽ. परिणामो वा विज्ञानं वान्यवस्तुनि स्याद्गत्यंतराभावात् । न तावत्सर्वज्ञविषयप्रत्यक्षादिप्रमाणरूपेणात्मनोऽपरिणामः सर्वज्ञस्याभावसाधकः सत्यपि सर्वज्ञे तत्संभवात् तद्विषयस्य ज्ञानस्यासंभवात्तस्यातींद्रियत्वात्परचेतोवृत्तिविशेषवत् । नापि निषेध्यात्सर्वज्ञादन्यवस्तुनि विज्ञानं, तदेकज्ञानसंसार्गणः कस्यचिद्वस्तुनोऽभावात् घटेकज्ञानसंसर्गिभूतलवत् । न हि यथा घटभूतलयोश्चाक्षुषेकज्ञानसंसर्गात् केवलभतले प्रतिषेध्या घटादन्यत्र वस्तुनि विज्ञानं घटामावव्यवहारं साधयति तथा प्रतिषेध्यात्सर्वज्ञादन्यत्र वस्तुनि विज्ञानं तदभावसाधनसमर्थ संभवति सर्वज्ञस्यातींद्रियत्वात्तद्विषयज्ञानस्यासंभवात्तदेकज्ञानसंसर्गिणोऽस्मदादिप्रत्यक्षस्य कस्यचिद्वस्तुनोऽनभ्युपगमादनुमानायेकज्ञानेन सर्वज्ञतदन्यवस्तुनोः संसर्गात्सर्व कज्ञानसंसर्गिणि क्वचिदनुमेयेऽर्थेऽनुमानज्ञानं संभवत्येवेति चेन्न तथा क्वचित्सर्वज्ञस्य सिद्धिप्रसंगात् । सर्वत्र सर्वदा सर्वस्य सर्वज्ञस्याभावे कस्यचिद्वस्तुनस्तेनैकज्ञानसंसर्गायोगात्तदन्यवस्तुविज्ञानलक्षणादभावप्रमाणात्सर्वज्ञाभावसाधनविरोधात् । किंच गृहीत्वा निषेध्याधारवस्तुसद्भावं स्मृत्वा च तत्प्रतियोगिनं निषेध्यमर्थं नास्तीति ज्ञानं मानसमक्षानपेक्षं जायत इति येषां दर्शनं तेषां निषेध्यसर्वज्ञाधारभूतं त्रिकालं भुवनत्रयं च कुतश्चित्प्रमाणाद्ग्राह्यं तत्प्रतियोगी च प्रति

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146