Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
श्रीविद्यानंदिस्वामिविरचिता
naruwwmmmmmmm
साधुत्वज्ञानातिशयेन वैयाकरणातिशायित्वमुत्प्रेक्षते । तथा वेदेतिहासादिज्ञानातिशयवतोऽपि कस्यचिन्न स्वर्गदेवताधर्माधर्मसाक्षात्करणमुपपद्यते, एतदभ्यधायि “ एकशास्त्रपरिज्ञाने दृश्यतेऽतिशयो महान् । नतु शास्त्रांतरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये । ज्योर्तिविच्च प्रकृष्टोऽपि चंद्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति । तथावेदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षम" इति । एतेन यदुक्तं सर्वज्ञवादिना “ ज्ञानं क्वचित्परां काष्ठां प्रतिपद्यते प्रकृष्यमाणत्वात् यद्यत्प्रकृष्यमाणं तत्तत्क्वचित्परांकाष्ठां प्रतिपद्यमानं दृष्टं यथा परिमाणमापरमाणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च ज्ञानं तस्मात्वचित्परां काष्ठां प्रतिपद्यते इति " तदपि प्रत्याख्यातं, ज्ञानं हि धर्मित्वेनोपादीयमानं प्रत्यक्षज्ञानं, शास्त्रार्थज्ञानमनुमानादिज्ञानं वा भवेद्गत्यंतराभावात् । तत्रंद्रियप्रत्यक्ष प्रतिप्राणिविशेष प्रकृष्यमाणमपि स्वविषयानतिकमेणैव परां काष्ठां प्रतिपद्यते गृद्धवराहादींद्रियप्रत्यक्षज्ञानवत् न पुनरतींद्रियार्थविषयत्वेनेति प्रतिपादनात् । शास्त्रार्थज्ञानमपि व्याकरणादि विषयं प्रकृष्यमाणं परां काष्ठामुपव्रजन्न शास्त्रांतरविषयतया धर्मादिसाक्षात्कारितया वा तामास्तिध्नुते । तथाऽनुमानादिज्ञानमपि प्रकृष्ममाणमनुमेयादिविषयतया परांकाष्ठामास्कंदेत् न पुनस्तद्विषयसाक्षात्कारितया । एतेन ज्ञानसामान्यं धर्मि क्वचित्परमप्रकर्षामियर्ति प्रकृष्यमाणत्वात् परमाणुवदिति वदन्नपि निरस्तः । प्रत्यक्षादिज्ञानव्यक्तिष्वन्यतमज्ञानव्यक्तेरेव परमप्रकर्षगमनसिद्धेस्तव्यतिरेकेण ज्ञानसामान्यस्य प्रकर्षगमनानुपपत्तेस्तस्य निरतिशयत्वात् । यदपि केनचिदभिधीयते श्रुतज्ञानमनुमानज्ञानं वाऽभ्यस्यमानमभ्याससात्मीभावे तदर्थसाक्षात्कारितया परां

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146